भारतम् अन्तरिक्षक्षेत्रे नूतनानि ऊर्ध्वतानि स्पृशति, देशः चन्द्रयान-४ अभियानस्य सज्जतायां व्यस्तः अस्ति
नई दिल्ली। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे उक्तवान् यत् आगामिसमये अन्तरिक्षक्षेत्रे बहवः नूतनाः सम्भावनाः आनयन्ति तथा च भारतम् अस्मिन् क्षेत्रे नूतनानि ऊर्ध्वतानि स्पृशति। प्रधानमन्त्रिणा उक्तं यत् देशाय महान् वैज्ञानिकस्य डॉ. के.कस्तूरीरंगनवर्यस्य ह्रासः अस्ति। सः अवदत् यत्, “यदा यदा डॉ. कस्तूरीरङ्गनं मिलितवान् तदा तदा वयं भारतस्य युवानां प्रतिभा, आधुनिकशिक्षा, अन्तरिक्षविज्ञानम् इत्यादीनां विषयाणां चर्चां कुर्वन्तः स्मः। विज्ञानं, शिक्षां, भारतस्य अन्तरिक्षकार्यक्रमं च नूतनानि ऊर्ध्वतानि दातुं तस्य योगदानं सर्वदा स्मर्यते। इसरो इत्यस्य नेतृत्वे नूतनः परिचयः प्राप्तः। तस्य मार्गदर्शने ये अन्तरिक्षकार्यक्रमाः प्रगताः ते भारतस्य प्रयत्नस्य वैश्विकं मान्यतां दत्तवन्तः।”
सः अवदत् यत् भारतं येषाम् उपग्रहाणां उपयोगं करोति तेषु बहवः उपग्रहाः डॉ कस्तूरीरङ्गनस्य निरीक्षणे प्रक्षेपिताः। तस्य व्यक्तित्वस्य अन्यः विशेषः पक्षः अपि आसीत्, यस्मात् युवानां अग्रिमसोपानं तस्मात् शिक्षितुं शक्नुवन्ति । सः सर्वदा नवीनतायाः महत्त्वं ददाति स्म । देशस्य नूतना राष्ट्रियशिक्षानीतिनिर्माणे अपि डॉ. के. तस्य देशस्य निःस्वार्थसेवा, राष्ट्रनिर्माणे च योगदानं सर्वदा स्मर्यते। सः अवदत् यत् अस्मिन् एप्रिलमासे आर्यभट्ट उपग्रहस्य प्रक्षेपणस्य ५० वर्षाणि पूर्णानि सन्ति।
पहलगामस्य आक्रमणमिदं आतङ्कवादस्य निष्ठुरतां प्रदर्शयति-मनकीबातकार्यक्रमे प्रधानमन्त्री
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् कश्मीरे पहलगाम आतंकि आक्रमणकारिणः षड्यन्त्रकारिणश्च दण्डयिष्यन्ते, प्रभावितेभ्यः परिवारेभ्यः न्यायाश्वासनम् प्रदत्तम्। पहलगाम-आतंकि-आक्रमणकारिभ्यः, षडयन्त्रकारिभ्यश्च कठोरतमं प्रत्युत्तरं प्रदास्यति । आकाशवाणीतः मन-की- बात -कार्यक्रमे श्री मोदिनोक्तं यत् आक्रमणमिदं आतंकवादस्य निष्ठुरतां प्रदर्शयति । प्रधानमन्त्रिणा भणितं यत् आतंकवादं विरुद्धय सम्पूर्णदेशः ऐक्यभावेन समक्ष समायाति । श्रीमोदिनोक्तं यत् आतंकि आक्रमणानन्तरं अशेष-जगतः संवदेशील-सन्देशाः प्राप्यन्ते ।
जगत्यां संकटसमये सहायतां प्रदातुं भारतदेशः सदैव तत्परः- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी प्रसन्नताभिव्यक्ता यत् अप्रैलमासेऽस्मिन् आर्यभट्ट-उपग्रह- प्रक्षेपणस्य पञ्चाशत्-वर्षाणि प्रपूरितानि। तेन प्रतिपादितं यत् अधुना भारतदेशः वैश्विक अन्तरिक्ष-महाशक्तिः रूपेण सशक्तो जातः। विगत-मासे म्यांमां-नगरे दुरापन्नस्य भूकम्पस्य उल्लेखं कुर्वन् प्रधानमन्त्री उक्तवान् यत् भारतदेशेन साहाय्योद्धार-कार्याणां कृते सपदि एवं ‘ऑपरेशन-बह्मा’ इति अभियानं प्रारब्धम् । तेन भणितं यत् वायु-सैन्यविमानै: नौसैन्यपोतैः च प्रतिवेशि-देशेभ्यः सर्वसंभवोपायाः विहिताः। श्रीमोदिना अभियानावधौ पीडितानां सहायतार्थं भारतीय साहाय्योद्धार – दलस्य आभारः प्रकटितः। तेन प्रकाशितं यत् कस्यामपि प्राकृतिक-आपदां अपाकर्तुं जागऽरुकता महती आवश्यकी वर्तते । प्रधानमन्त्रिणा प्रकटितं यत् वर्षेऽस्मिन् मईमासस्य दशम्यां तिथौ प्रथम-स्वतन्त्रता-संघर्षस्य वार्षिकी परिपालयिष्यते ।
भारतम् अन्तरिक्षक्षेत्रे नूतनानि ऊर्ध्वतानि स्पृशति, देशः चन्द्रयान-४ अभियानस्य सज्जतायां व्यस्तः अस्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment