HP Education : बिजन-ढलवान- विद्यालयस्य संस्कृतशिक्षकेन छात्रेभ्य: ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिका: वितरिता:
नामाङ्कनवर्धनं प्रति प्रशंसनीय: उपक्रमः
हिमसंस्कृतवार्ता: – मण्डी।
२३ एप्रिल २०२५ — राजकीय-उच्च- विद्यालये बिजन-ढलवाने शिक्षां प्रोत्साहयितुं छात्रनामाङ्कनं च प्रवर्धयितुं संस्कृतशिक्षकः डॉ. मनोजकुमार: शैल: बुधवासरे विद्यालये विद्यालयस्य मुख्याध्यापिकया मोनिकाठाकुरद्वारा नवप्रवेशितानां सर्वेषां छात्राणां कृते ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिकानां वितरणं कृतवान्। एतस्य उदात्तकार्यस्य माध्यमेन विद्यालये अध्ययनं कुर्वन्तः छात्राः आवश्यकाः शैक्षणिकसामग्रीः प्राप्नुवन्ति स्म, येन तेषां अध्ययने प्रोत्साहनं प्राप्तम् । डॉ. मनोजकुमार शैलेन व्यक्तिगतप्रयत्नेन कृत: एष: उपक्रमः समाजे शिक्षायाः प्रति समर्पणस्य उत्तरदायित्वस्य च उदाहरणं प्रस्तुतं करोति। विद्यालयस्य मुख्याध्यापिका मोनिकाठाकुर डॉ. मनोजकुमारशैलस्य अस्य प्रयासस्य प्रशंसाम् अकरोत्, सावदत् यत् “डॉ.मनोजकुमारशैलस्य एतत् योगदानं न केवलं छात्राणां कृते उपयोगी अस्ति, अपितु एतत् कार्यं समर्पितस्य शिक्षकस्य भूमिकां दर्शयति।एतत् विद्यालये नामाङ्कनं अपि वर्धयिष्यति तथा च छात्राणां अध्ययनं प्रति सकारात्मकं प्रेरणा भविष्यति।” डॉ. मनोजकुमारशैलः अस्मिन् अवसरे उक्तवान् यत् शिक्षा एव समाजस्य प्रगतेः कुञ्चिका अस्ति तथा च यदि तस्य लघुप्रयासेन कस्यचित् छात्रस्य भविष्यं प्रकाशितं भवति तर्हि तस्य कृते गौरवस्य विषयः भविष्यति। भविष्ये अपि छात्राणां हिताय एतादृशाः प्रयासाः निरन्तरं कर्तुं सः संकल्पं प्रकटितवान्। विद्यालयपरिवारेण डॉ. मनोजकुमारशैलस्य अस्य सराहनीयस्य कार्यस्य कृते हार्दिकं आभारं प्रकटितं तस्य प्रयासं अनुकरणीयं च वर्णितम्।