Pahalgam Attack पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलिः
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमन्त्री अमित-शाहः प्रावोचत् यत् प्रत्येकमपि भारतीयाः दक्षिण-कश्मीरस्य अनन्तनाग-जनपदस्य पहलगाम-क्षेत्रे दुरापन्नातङ्क-वाद्याक्रमणे निज-प्रियजनानां मृत्योः दुःखं अनुभवन्ति। अमुना निखिलमपि देशं समेत्य एते सर्वेSपि पीडितपरिवाराः समाश्वासिताः यत् निर्दोष-जनानां हत्या-कर्तारः इमे आतङ्किनो नूनमेव दण्डयिष्यन्ते । आतंकवादिनो एवमेव नैव विमोक्ष्यन्ते। केन्द्रीय गृहमन्त्री अमितशाहः, जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाह, उपराज्यपालः मनोज सिन्हा च श्रीनगरस्य आरक्षिनियन्त्रण-कक्षस्य पी.सी.आर. इत्यस्य निरीक्षणयात्रां कृतवन्तः। इमे पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलीन् समर्पितवन्तः । मंगलवासरे दुरापन्नातङ्क्याक्रमणे मारितानां जनानां शवाः तेषां गृहराज्येषु सम्मानजनक-रीत्या प्रेषयितुम् आधिकारिक व्यवस्थायाः अन्तर्गतं अत्र पी.सी.आर. मध्ये समानीताः आसन्। गृहमन्त्री अमितशाहः जम्मू-कश्मीरस्य नेतारश्च श्रीनगरे पहलगामातंकवाद्याक्रमणे मृतकेभ्यः श्रद्धांजलीन् समार्पयन्। भारतम् आतंकस्य पुरतः कदापि नतो नैव भविष्यति। गृहमंत्री जम्मू-कश्मीरस्य बैसरनवनक्षेत्रे आक्रमण क्षेत्रस्य स्थितिमपि निरैक्षत। अमुना सर्वकारीय-चिकित्सा-महाविद्यालय-अनंतनाग-उपचारालये उपचाराधीनानां व्रणितानां जनानां स्वास्थ्य-विषयेऽपि संज्ञानं स्वीकृतम्। प्राप्तावार्तानुसारेण पहलगाम-आक्रमणे स्थानीय-जनद्वयं समेत्य षड्विंशतिः पर्यटकाः पञ्चतां प्राप्ताः आसन्। आरक्षि-बलेन चाराभिकरणेन च आक्रान्तृ-आतङ्कि-त्रयस्य अन्वेषणार्थं स्केच-चित्रम् प्रख्यापितम् अस्ति।
पहलगाम-आक्रमणस्य विषये सर्वविधमपि पदक्षेपम् उत्थापयितुं शासनं तत्परम् अस्ति- रक्षामन्त्री राजनाथसिंहः
हिमसंस्कृतवार्ता: – रक्षामन्त्री राजनाथसिंहः आतङ्कवादं विरुध्य भारतस्य शून्य-सहिष्णुता-नीति-विषये साम्रेडितवान्। तेन प्रोक्तं यत् पहलगाम-आक्रमणस्य उत्तरदायिभ्यः मुखभञ्जन-करम् उत्तरं दातुं प्रशासनम् किमपि करणीयं न त्यक्ष्यति। सर्वविधमपि पदक्षेपम् उत्थापयितुं शासनं तत्परम् अस्ति। रक्षास्रोतांसि प्रोक्तवन्ति यत्, सेनाप्रमुखेण जनरल् उपेन्द्रद्विवेदिना, नौसेनाप्रमुखेण एडमिरल् दिनेशत्रिपाठिना, वायुसेनाप्रमुखेण एयर चीफ मार्शल एपी सिंहेन अन्यैः वरिष्ठाधिकारिभिः च पहलगाम आतंक्याक्रमणं निध्याय सुरक्षा-स्थितेः विषये श्रीसिंहस्य पुरतः विवरणं प्रस्तुतम्। अत्रावसरे नवदेहल्यां भारतीय वायुसैन्यबलेन आयोजिते भारतीय वायुसेनायाः मार्शलस्य अर्जुनसिंहस्य विषये स्मृतिव्याख्यानं सम्बोधयन् रक्षामन्त्री अस्याक्रमणस्य प्रतिकाराय सर्वाः व्यवस्थाः क्रियन्ते इति उक्तवान्। पहलगाम-क्षेत्रे आतङ्क्याक्रमणस्य निन्दां कुर्वन् श्रीसिंहः शोक-संतप्त-परिवारेभ्यः शोकसंवेदनां प्रकटितवान्।
कश्मीरोपत्यकायां समस्ते दिने पूर्णपिधानं प्रवर्तितम्
हिमसंस्कृतवार्ता: – पहलगाम-मध्ये पर्यटकानां हत्यायाः विरोधे कश्मीरोपत्यकायां समस्ते दिने पूर्णपिधानं प्रवर्तितम्। अधिकांशापणानि स्थानीय-औद्योगिक-समवायाः विनिर्माण एकांशाः च पिहिताः सन्ति। सार्वजनिकं परिवहनमपि मार्गेषु शून्यम् अस्ति। जम्मू-कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला केन्द्र-शासित प्रदेशस्य सर्वकारीय-कार्यालयानां कर्मकरान् अध्यार्थ्यत् यत् ते अपराह्न-सार्ध-त्रि-वादने राष्ट्रस्य ऐक्यबद्धतार्थं मिनट-द्वयस्य मौनमाचरन्तु इति।
विश्वस्य प्रमुखनेतृभिः जम्मू-कश्मीरे दुरापन्नस्य आतङ्क्याक्रमणस्य निन्दा कृता
हिमसंस्कृतवार्ता – विश्वनेतृभिः जम्मू-कश्मीरे आतङ्क्याक्रमणं भर्त्सितम्। विश्वस्य प्रमुखनेतृभिः जम्मू-कश्मीरे दुरापन्नस्य आतङ्क्याक्रमणस्य निन्दा विहितास्ति। अमेरिकीय-राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं दौरभाषिकं सम्भाषणम् आचरितवान्। निर्दोष-जनानां हत्याविषये च गम्भीरां संवेदनां व्यक्तीकृतवान्। अथः च आतङ्किनो विरुध्य कार्याचरणे अमेरिकादेशस्य पूर्ण-समर्थनमपि आश्वासितवान्। ब्रिटेन-देशस्य प्रधान मन्त्रिणा कीर स्टारमर इत्यनेन अपि स्वीय-संवेदनाः व्यक्तीकृताः जर्मन चांसलर राष्ट्राध्यक्षः ओलाफ स्कोल्जः अपि आक्रमणमिदं भृशं भर्त्सितवान्। अमुना पहलागामातङ्क्याक्रमणे पर्यटकानां हत्याविषये संवेदनाः चापि व्यक्ताः। यूरोपीय संघायोगस्य प्रमुखा अपि आक्रमणं निन्दितवती। संयुक्त-अरब-अमीरात-देशेन, ईरान-देशेन चापि अस्य आक्रमणस्य कट्वालोचना कृता अस्ति। इजरायल-इटली देशाभ्यामपि एतत् आक्रमणं भृशं निन्दितम् । संयुक्त राष्ट्र-महासचिवः एंटोनियो गुटेरेसः अपि आक्रमणस्य भृशं निन्दापूर्वकं मृतकानां शोकसंतप्त-परिवारान् प्रति संवेदनां व्यक्तीकृतवान्।
भारतम् आतंकवादं प्रति शून्य-सहिष्णुतायुतं दृष्टिकोणं निदधाति – केन्द्रीय-पर्यटन-मन्त्री गजेंद्र सिंह शेखावतः
हिमसंस्कृतवार्ता: – केन्द्रीय-पर्यटन-मन्त्री गजेंद्र सिंह शेखावतः प्रावोचत् यत् पहलगाम आतङ्क्याक्रमणस्य अनन्तरं कश्मीरोपत्यकायां पर्यटनक्षेत्रे सम्भावितां हानिं न्यूनीकर्तुं केन्द्रम् निज-पक्षतः यथासम्भवं प्रयासान् करिष्यति। मन्त्री प्रत्यपादयत् यत् असौ जम्मू-कश्मीरस्य मुख्य-सचिवेन, पर्यटनविभागेन च साकं सम्पर्के विद्यते। अमुना एतदपि प्रोदितं यत् भारतम् आतंकवादं प्रति शून्य-सहिष्णुतायुतं दृष्टिकोणं निदधाति ।
जम्मू-कश्मीर-प्रशासनेन पहलगामे जाते आतङ्क्याक्रमणे मृतकाणां परिवारेभ्यः दशलक्ष-रूप्यकाणाम् अनुग्रह-राशेः घोषणा कृता
हिमसंस्कृतवार्ता: – जम्मू-कश्मीर-प्रशासनेन पहलगामे जाते आतङ्क्याक्रमणे मृतकाणां परिवारेभ्यः दशलक्ष-रूप्यकाणाम् अनुग्रह-राशेः घोषणा कृता । मुख्यमन्त्रिणा उमर अब्दुल्ला-इत्यनेन उक्तं यत् गभीर-रूपेण व्रणितानां कृते द्विलक्ष-रूप्यकाणि, सामान्यरूपेण व्रणितानां कृते एकैक-लक्ष-रूप्यकाणि च सहयोगरूपेण प्रदास्यन्ते भविष्यन्ति। मुख्यमन्त्रिणा इदमपि उक्तं यत् पीडितानां पैतृक-स्थाने प्रेषणाय सर्वाः सज्जताः कृता सन्ति।
भारतीय-नौसेना प्रमुखेण चीफ एडमिरल दिनेश के. त्रिपाठी वर्येण लेफ्टिनेंट विनय-नरवालाय अन्तिमः श्रद्धांजलिः समर्पितः
हिमसंस्कृतवार्ता: – भारतीय-नौसेना प्रमुखेण चीफ एडमिरल दिनेश के. त्रिपाठी वर्येण लेफ्टिनेंट विनय-नरवालाय अन्तिमः श्रद्धांजलिः समर्पितः । ध्येयमस्ति यत् एषः पहलगाम आतङ्क्याक्रमणे हुतिंगतः आसीत्। नौसेना प्रमुखेण राष्ट्रिय-राजधानी-क्षेत्रस्य इंदिरा गांधी अन्ताराष्ट्रीय-विमान-पत्तने लेफ्टिनेंट नरवालस्य पार्थिवशरीरे पुष्पांजलयः समर्पिताः। अत्रावसरे देहल्या: मुख्यमन्त्री रेखा गुप्ता अपि लेफ्टिनेंट नरवालाय अन्तिम श्रद्धांजलीं समार्पयत्। पश्चात् नरवालस्य पार्थिव-शरीरम् हरियाणायाः करनालक्षेत्रं नेष्यते।