भारतस्य औषधनिर्यातः गतवित्तीयवर्षे त्रिंशत् अरब डॉलर मित पर्यन्तम् समंकितः
हिमसंस्कृतवार्ता: – भारतस्य औषधनिर्यातः गतवित्तीयवर्षे त्रिंशत् अरब डॉलर मित पर्यन्तम् समंकितः, यत्र अमेरिकादेशः प्रमुखापणम् अभवत्, देशस्य औषधनिर्यातस्य एकतृतीयाधिकं भागम् अस्ति। आधिकारिकव्यापारदत्तांशस्य अनुसारं वित्तीयवर्षे चतुर्विंशत्यधिक द्विसहस्र, पञ्चविंशत्यधिक द्विसहस्र वर्षयोः मध्ये औषधनिर्यातः त्रिंशत् अरब डॉलर मितात् अधिकं यावत् अभवत्, यत् वित्तीयवर्षे त्रयोविंशत्यधिक द्विसहस्र, चतुर्विंशत्यधिक द्विसहस्र वर्षयोः मध्ये प्रायः सप्त विंशतिः दशमलव पञ्च अरब डॉलरमितात्मकस्य तुलनायां नव प्रतिशतात् अधिकं वृद्धिः अभवत्। पञ्चविंशत्यधिक द्विसहस्र तमवर्षस्य मार्चमासे औषधनिर्यातेषु त्रिंशत् प्रतिशताधिकं वृद्धिः अभवत्।
भारतस्य औषधनिर्यातः गतवित्तीयवर्षे त्रिंशत् अरब डॉलर मित पर्यन्तम् समंकितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
