हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः
राज्यसर्वकारेण चलितवित्तीयवर्षस्य एकीकृतोद्यानविकासमिशनस्य अन्तर्गतं ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः। एषः प्रस्तावः केन्द्रीयकृषि-कृषक-कल्याण-मन्त्रालयस्य अनुमोदनार्थं प्रेषितः अस्ति । राज्यसर्वकारेण गतवर्षस्य तुलनायाम् अस्मिन् वर्षे अस्य मिशनस्य कृते २१ कोटिरूप्यकाणां अधिकं बजटं याचितम्। गतवर्षे अस्याः योजनायाः अन्तर्गतं सर्वकारेण ४० कोटिरूप्यकाणां प्रस्तावः प्रेषितः आसीत्, यस्मात् राज्येन केवलं १६.६६ कोटिरूप्यकाणि एव प्राप्तानि आसन् । अस्य मिशनस्य अन्तर्गतं ९० प्रतिशतं धनं केन्द्रसर्वकारेण, १० प्रतिशतं राज्यसर्वकारेण च वह्यते । तात्पर्यम् अस्ति यत् नूतनवित्तवर्षे केन्द्रसर्वकारेण प्रायः ५५.६८ कोटिरूप्यकाणि, राज्यसर्वकारेण प्रायः ६.१८ कोटिरूप्यकाणि च वहन्ति।
हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
