संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा:
वार्ताहर: – जगदीश डाभी
संस्कृतभारती,काशीप्रान्तद्वारा आयोजितेस्मिन् श्रीशारदापीठं शृङ्गेरीमठमहमूरगञ्जे द्विदिवसीया प्रान्तसमीक्षायोजनागोष्ठी रविवासरे संस्कृतस्य प्रसाराय चर्चा सञ्जाता । संस्कृतं देववाणीं लोकवाणीं(सार्वजनिकभाषां) कर्तुं संस्कृतभारती काशीप्रान्तस्य कृतस्य कार्यस्य समीक्षा कृता ।कार्यक्रमे संस्कृतभारती अखीलभारतीयाध्यक्षा: मान्या: कुलपतिचरा: प्रो. गोपबन्धुमिश्रमहाभागा: आसन् ।तै: उक्तं संस्कृतभारत्या: कार्यम् इदानीम् आभारते प्रतिग्रामं दरीदृश्यते ।न तु भारते एव अपितु विश्वस्य सप्तविंशति: २७ देशेषु जायमाना वर्तते । साम्प्रतं संस्कृतं पूर्णतया नित्यं च २६६२ द्विषष्ट्याधिकषडशतोत्तरद्विसहस्त्राधिकं गृहेषु भाष्यते। कार्यक्रमे आवर्षस्य भविष्यस्य योजनानां रूपरेखा निर्मिता । कार्यक्रमस्य उद्देश्यं संस्कृतस्य प्रचारः समाजे सामाजिकसौहार्दं च निर्वाहयितुम् आसीत् । कार्यक्रमे अखीलभारतीयमंत्री मान्य: नन्दकुमारवर्य: उक्तवान् यत् काशीप्रान्तस्य प्रत्येकेषु जनपदेषु प्रत्येकं मासं संस्कृतभाषाशिविरं भवेत्, येन सामाजिका: अपि संस्कृतेन व्यवहारं कुर्यु: । प्रान्तमंत्री श्रीमान् डॉ. नागेशपाण्डेयमहोदय: अवदत् वयं साप्ताहिकमेलनं कृत्वा गीतापाठनं प्रतिसप्ताहे कुर्म: । कार्यक्रमे पूर्वोत्तरक्षेत्रसंगठनमंत्री श्रीमान् प्रमोदपण्डितवर्य: एवं सहमंत्री डॉ. मनीषजुगरानवर्य:, प्रान्तशिक्षणप्रमुण: श्रीमान् अशोकचौधरी, सहशिक्षणप्रमुखा प्रीतिवर्मा, प्रान्तसाहित्यप्रमुख: अमरचन्द्रठाकुर:, प्रान्तप्रचारप्रमुख: सरोजपाण्डेय: तथा महानगरस्य अधिकारिण: डॉ. श्रीनिवासदेव: डॉ सुजीतत्यागी श्रीमान् विमलकुमारपाण्डेय: एवं अन्येपि कार्यकर्तार: समुपस्थिता: आसन् ।