वैशाखसंक्रान्तिः- सङ्कान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति
भारते सङ्क्रान्तिपर्वः महता उत्साहेन आचर्यते । कस्यचित् मासस्य सूर्यसंक्रान्तिदिने कृतं दानं अन्येभ्यः शुभदिनेभ्यः दशगुणं फलं ददाति। अस्मिन् श्रृङ्खलायां वैशाखमासस्य संक्रान्तिः आगच्छति। अस्मिन् वर्षे संक्रान्त्याः पुण्यकालः 14 अप्रैल दिनाङ्के मध्याह्नयावत् भविष्यति। इयं संक्रान्तिः स्नान-दानस्य कृते-शुभकालयक्ता वर्तते।अस्मिन् मासे प्रतिदिनं श्रीविष्णुसहस्रनाम-“ॐ नमो भगवते वासुदेवाय” इति मन्त्रस्य पाठस्य विशेषं महत्त्वम् अस्ति।
वैशाख संक्रांत्तौ पुण्यकालस्य महत्वम्
वैशाखसंक्रान्तिः अस्मिन् वर्षे, अप्रैल १४, २०२५ दिनाङ्के ०३:३० वादने प्रवेशं करिष्यति
वैशाखसंक्रांतेः शुभ समय प्रात: प्रारभ्यते
वैशाखसंक्रान्तिः सतुआ-संक्रान्तिः इति नाम्ना अपि प्रसिद्धा अस्ति । अस्मिन् दिने जनाः जलपूर्णाः घटाः, व्यजनानि, सत्तुः इत्यादिनां पदार्थानां दानं कुर्वन्ति, खादन्ति च । वैशाखमासे प्रतिदिनं प्रातः सूर्योदयात् पूर्वं शुद्धजलेन स्नानस्य, तीर्थयात्रायाः, अन्नधान्यवस्त्रवस्त्रफलादिदानस्य यथाशक्ति नियमस्य महत्त्वम् उक्तम् अस्ति । रोगाः शोकाः च जीवनात् अपहृताः भवन्ति । आरोग्यधनसम्पत्त्यादिसुखं लभते शरीरमनसात्मने बलप्रदम् । अस्मिन् काले पवित्रनदीषु स्नानस्य, गौशालासु दानस्य च सद्फलं मन्यते ।
वैशाख संक्रांतेः पूजनम्
संक्रांतिव्रतस्य विशेषं महत्त्वम् अस्ति। संक्रान्तिं प्रति संवत्सरे उपवासं निवृत्तिश्च कर्तव्या। संक्रांतिसमये स्नानं कृत्वा भगवतः मूर्तिं स्थापयित्वा गणेशादिदेवतानां पूजां कृत्वा ततः षोडशोपाचारपूजासंकल्पादिभिः सह सूर्यनारायणस्य पूजा अवश्यमेव करणीया। अनया पूजया सुखं धनं आरोग्यं ज्ञानं च लभ्यते शत्रवश्च अपमानिताः भवन्ति।
धर्मग्रन्थानुसारं वैशाखसंक्रान्तिः विष्णुभगवन्तं प्रीणयति इति ब्रह्मणा एव उक्तम् । वैशाखसंक्रांतिदिने केवलं जलदानेन अनेकगुणाधिकं शुभफलं प्राप्तुं शक्यते।
वैशाखसंक्रान्तेः महत्त्वम्
हिन्दुपञ्चाङ्गानुसारं वैशाखमासे सूर्यः मेषराशोः सञ्चरणं करोति। मेषराशिः सूर्यस्य उच्चराशिः मन्यते। अस्मिन् मासे सूर्यसवद्धानां वस्तूनां दानस्य विशेषं महत्वमस्ति। अस्मिन् समये ईश्वरस्य पूजा, ध्यानं, पवित्रकर्मकरणं च अतीव शुभं भवति इति विश्वासः अस्ति । ईश्वरस्य स्मरणेन अस्मिन् कालखण्डे अत्यधिकः लाभः प्राप्यते। वैसाखीसंक्रांतिदिने उपवासं कुर्वन्तः जनाः तिलमिश्रितेन जलेन स्नानं कुर्वन्ति । अग्नौ तिलानि समर्प्य मधुतिलपूर्णं पात्रं च दानं कुर्वन्ति । एतादृशानां महत्त्वपूर्णानां संस्काराणां विस्तृतंवर्णनं धार्मिकग्रन्थेषु कृतम् अस्ति ।
वैशाखसंक्रांतिः दिने धारणीयाः नियमाः
वैशाखसंक्रान्तिकाले बहूनि धर्मकार्याणि क्रियन्ते । अस्मिन् मासे वातावरणम् उष्णतरः भवति । अस्यां परिस्थितौ अनेके नियमाः धार्मिकरूपेण दत्ताः सन्ति, ये न केवलं धर्मस्य परीक्षायां अपितु वैज्ञानिकतर्कस्य अपि परीक्षायां तिष्ठन्ति ।
अस्मिन् मासे तापस्य स्तरः निरन्तरं तीव्रः भवति तथा च अनेकप्रकारकाः संक्रमणाः रोगाः च वर्धयितुं आरभन्ते । अतः अस्मिन् संक्रांतिसमये क्रियमाणाः आहार-अभ्यासाः, प्रार्थनाः च सर्वाः समस्याः परिहरितुं साहाय्यं कुर्वन्ति ।
संक्रान्त्यां जलदानं भवति। अस्मिन् समये नानास्थानेषु जनानां कृते जलस्य व्यवस्था क्रियते । येन सर्वेषां कल्याणं विकासं च सम्भवं भवेत्। अस्मिन् ऋतौ अत्यधिकोपस्करस्य (मसाला) तामसिकाहारस्य च परित्यागः कर्तव्यः । अतिरिक्ततैलोपस्करेण सह भोजनं वर्जयेत् ।
अस्मिन् ऋतौ यथाशक्ति रसयुक्तानि फलानि सेवित्वा जलं बहु पिबेत् । अस्मिन् ऋतौ सत्तुप्रयोगे अधिकं बलं दीयते । शुद्धता सरलता च भवतः दैनन्दिनकार्यक्रमे समावेशितव्या। अस्मिन् ऋतौ दीर्घकालं निद्रां च वर्जयेत् । दिवा निद्रायाः समयं न्यूनीकर्तुं प्रयतेत ।
वैशाखसंक्रांतौ पूजानियमाः
वैशाखसंक्रांतिदिने प्रातःकाले जागृत्य स्वदेवतां ध्यायेत् । अस्मिन् मासे सूर्योदयात् पूर्वं सर्वदा उत्थाय ब्रह्ममुहूर्ते स्नानं कर्तुं प्रयतेत। जले तिलानि योजयित्वा स्नानमपि कर्तुं शक्यते । भगवतः श्री हरेः नामस्मरणं करणीयम्। गंगानद्यां, सरसि वा शुद्धोदकेन वा स्नानं कृत्वा स्वच्छवस्त्रं धारयित्वा ईश्वरं पूजयेत् । शिवलिंगस्य उपरि जलं पातयेत्। तदनन्तरं संक्रान्त्याः महत्त्वमपि वाच्यम् ।
संक्रान्तिकाले सूर्यपूजायाः महत्त्वं वर्तते । अस्मिन् काले सूर्यः एकस्मात् राशितः अन्यस्मिन् राशिं प्रति प्रविशति अतः अस्मिन् काले सूर्यस्य पूजा अत्यन्तं महत्त्वपूर्णा अस्ति । एषः सौरमासस्य आरम्भकालः अपि भवति । जलं सूर्याय दद्यात् सूर्यं च पूजयेत्। आदित्यहृदयस्तोत्रं पठेत्, सूर्यनामानि स्मर्तव्यानि।
धार्मिकग्रन्थाः अवश्यं पठितव्याः। भागवतश्रवणस्य विशेषं माहात्म्यमस्ति अस्मिन् मासे।
गोपूजनस्य माहात्म्यम्
अस्मिन् मासे सूर्यपूजया सह गोपूजनस्य विशेषं महत्वं वर्तते। गोधूमस्य (गेंहू) पिण्डानि निर्माय गौभ्यः समर्पणियानि, परित्यक्तानां गवानां संरक्षणं, जलव्यवस्था अपि कर्तव्या, यतोहि गोशरीरे सर्वाः देवाः निवसन्ति। यथोक्तं शास्त्रेषु गावो विश्वस्य मातरः