चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती
हनुमानजयन्ती प्रतिवर्षं चैत्रमासस्य पूर्णिमादिने आचर्यते । संकटमोचनः, बजरंगबली, अंजनीपुत्रः इत्यादिभिः अनेकैः नाम्ना प्रसिद्धः हनुमानः अस्मिन् दिने जातः । अस्मिन् वर्षे हनुमानजयन्ती १२ एप्रिल २०२५ दिनाङ्के विशेषः संयोगः आनयत्, यतः अयं उत्सवः शनिवासरे पतति। शनिवासरे हनुमत्पूजनम् अत्यन्तं फलप्रदं मन्यते, यतः एषः दिवसः तस्य परमभक्तस्य शनिदेवस्य अस्ति।
शक्तेः भक्तेश्च विशेषः संयोगः- : हनुमान भगवतः शिवस्य 11 रुद्रेषु अन्यतमः मन्यते। सः बलस्य, प्रज्ञायाः, निष्ठायाः, भक्तेश्च प्रतीकः अस्ति । तस्य जीवनं भगवतः रामभक्तेः, धर्मसेवायाः च उदाहरणम् अस्ति । हनुमानजयन्ती न केवलं उत्सवः, अपितु शक्तेः भक्तेश्च सङ्गमः अस्ति यः अस्माकं कृते कठिनसमये अपि विश्वासं साहसं च ददाति।
हनुमतः जागरणम्- रामायणकथानुसारं शापवशेन हनुमतः शक्तयः विस्मृताः भवन्ति, परञ्च यदा कश्चन हनुमतं शक्तिस्मरणं कारयति तदा तस्य सर्वाः शक्तयः पुनः जाग्रिताः भवन्ति। तुलसीकृते सुन्दरकाण्डे यदा जामवन्तः हनुमतं शक्तिस्मरणं कारयति। तद्यथा-
कहइ रीछपति सुनु हनुमाना। का चुप साधि रहेहु बलवाना॥
पवन तनय बल पवन समाना। बुधि बिबेक बिग्यान निधाना॥
कवन सो काज कठिन जग माहीं। जो नहिं होइ तात तुम्ह पाहीं॥
राम काज लगि तव अवतारा। सुनतहिं भयउ पर्बताकारा॥
शनिवासरस्य महत्त्वम् : शनिग्रहः न्यायदेवः इति कथ्यते, यः स्वकर्मानुगुणं परिणामं ददाति। शनिवासरे ये हनुमतं पूजयन्ति, ते शनेः पीडातः निवृत्तिं प्राप्नुवन्ति इति विश्वासः अस्ति। अस्मिन् समये हनुमानजयन्ती शनिवासरे पतति इति कारणतः भक्तानां विशेषलाभाः प्राप्तुं सम्भावना वर्तते। ज्योतिषीणां मते बहुवर्षेभ्यः परं एषः संयोगः आगतः, येन अयं संयोगः अधिकः विशेषः भवति।
धार्मिकवैज्ञानिकदृष्टिकोणः- धार्मिकविश्वासानुसारं हनुमतः उपासना जीवनात् भयं, रोगं, दरिद्रतां, नकारात्मकोर्जां च दूरं करोति। वैज्ञानिकदृष्ट्या पूजा, मन्त्रजपः, ध्यानं च मानसिकशान्तिं सकारात्मकशक्तिं च प्रदाति, येन अपसादे न्यूनता भवति, आत्मविश्वासः च वर्धते ।
चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment