होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
हिमसंस्कृतवार्ताः। अप्रैल मासस्य ११ दिनाङ्के पंजाबविश्वविद्यालयहोशियारपुरस्य विश्वेश्वरानन्दसंस्थाने द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः वैदिककार्यशालायाः च आरम्भः अभवत्। अत्र ‘वेदार्थनिर्णये गृह्यसूत्राणामवदानम्’ इति विषयमादाय चर्चा सञ्जाता। कार्यक्रमस्य उद्घाटनसत्रे मु़ख्यातिथिरुपेण मान्या गज़लप्रीतकौरः (आई. पी. एस. होशियारपुरम्) उपस्थिता। महोदयया संस्कृतभाषायाः प्रतिपादनं मधुरभाषारुपेण कृतं संस्कृतं पठितुं च विशेषाग्रहः कृतः। येन संस्कृतधारा निरन्तररुपेण प्रवहेत्। सम्मानितातिथिरुपेण केन्द्रियमन्त्री डाॅ. राजकुमारचब्बेवालवर्यः संस्थानस्य विकासाय यथायोग्यसहायस्य विषये उक्तवान्। पंजाबविश्वविद्यालयस्य संसकृतविभागस्य विभागाध्यक्षः प्रो. वीरेन्द्रालङ्कारमहाभागाः मुख्यवक्तृरुपेण वर्तमानसन्दर्भे गृह्यसूत्राणां उपयोगितां सारगर्वितरुपेण प्रतिपादितवान्। एवमेव कुलपतिद्वारा नामांकिता प्रो. लतिकाशर्मा उक्तवती यत् भारतीयज्ञानपरम्परायाः आधारः संस्कृतमेवास्ति अतः समाजस्य प्रत्येकमपि जनः संस्कृतं पठेत् इति आग्रहमपि कृतवती। विभागस्य विभागाध्यक्षा प्रो. ऋतुबाला स्मृतिचिह्नप्रदानेन सर्वेषां स्वागतं कृतवती। सत्रसञ्चालकः सहायकाचार्यः श्रीनीरजकुमारः आसीत्। अस्मिन् अवसरे पूर्वसेवानिवृतः आचार्यः प्रो. कन्हैयालालपाराशरवर्यः, डाॅ. देशराजशांख्यायनः, विभागस्य च डाॅ. रबीन्द्रबरमोला, डाॅ. तेज प्रकाशः, डाॅ. रितेशः,समस्तकार्मिकविभागः छात्राः च उपस्थिताः आसन्।