भारतम् आगमिष्यति मुम्बई आक्रमणस्य अभियुक्तः तहबूरराणा
मुम्बई-नगरस्य आतङ्क-आक्रमणस्य अभियुक्तस्य तहवूर-राणस्य भारतं प्रति प्रत्यर्पणस्य मार्गः अधुना मुक्तः अस्ति । अमेरिकी सर्वोच्चन्यायालयेन राणस्य याचिका अङ्गीकृता यस्मिन् सः प्रत्यर्पणस्य स्थगनं याचितवान् आसीत्। सोमवासरे सर्वोच्चन्यायालयस्य जालपुटे प्रकाशितायाः सूचनायाः माध्यमेन एषः निर्णयः अभवत्। ६४ वर्षीयः तहवूरराणा पाकिस्तानमूलस्य कनाडादेशस्य नागरिकः अस्ति । सः सम्प्रति लॉस एन्जल्सनगरस्य मेट्रोपोलिटन-निरोधकेन्द्रे निवसति । २७ फरवरी दिनाङ्के राणा सर्वोच्चन्यायालयस्य सहायकन्यायाधीशायाः एलेना कागनस्य समक्षं आपत्कालीनयाचिकाम् अङ्गीकृतवान्, यत्र स्वस्य हबियास् कॉर्पस् याचिकायाः श्रवणं यावत् तस्य प्रत्यर्पणस्य स्थगनं याचितवान्
भारतम् आगमिष्यति मुम्बई आक्रमणस्य अभियुक्तः तहबूरराणा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
