उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: “नैक”(NAAC) द्वारा “A” श्रेण्यां प्रत्ययायित:
प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी
राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदा (NAAC) इत्यनेन उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालय: सप्तबिन्दूपरिमाणे 3.08-सीजीपीए-सहितं “*A*”-श्रेण्यां प्रत्ययायित:। अस्य वैधता 27-03-2025 दिनाङ्कदारभ्य पञ्चवर्षावधि पर्यन्तं भविष्यति। विश्वविद्यालयस्य अस्याः उपलब्धेः विषये ज्ञात्वा प्रदेशस्य मान्य: राज्यपालः विश्वविद्यालयस्य कुलाधिपति: च श्रीमान्मङ्गुभाईपटेलवर्य: सहैव राज्यस्य मान्य: मुख्यमन्त्री डॉ. मोहनयादववर्य: च शुभकामना: आनन्दं च प्रकटितवन्तौ। मान्य: उच्चशिक्षामन्त्री इन्दरसिंहपरमारवर्य: दूरभाषेण विश्वविद्यालयपरिवारं शुभकामना: प्रेषितवान्। विश्वविद्यालयस्य मान्य: कुलगुरुः, आचार्य: विजयकुमारसीजीवर्य: विश्वविद्यालयस्य सम्बद्धमहाविद्यालयानां, प्राचार्यान् , संकायप्रमुखान्, विभागप्रमुखान् , आचार्यान् ,छात्रान् च सम्बोधयन् अस्याः उपलब्धिविषये उद्घोष्णा कृतवान् । महोदयेन उक्तं यत् अनया उपलब्धया भारतीयज्ञानपरम्परायाः सुदृणतया प्रचार – प्रसारं च वर्धयिष्यति तथा च अनेकेषां शैक्षणिकावकाशानां मार्गो च उद्घाटितो जात:, येन अनुसन्धानकार्ये नवीनतां च प्रवर्धयिष्यति। तथा च नूतनाः पाठ्यक्रमाः अपि आरभ्यतुं शक्यन्ते। महोदय: अवदत् यत् एषा अपूर्वा सफलता विश्वविद्यालयस्य सर्वेषां समर्पितानां शिक्षकानां, कर्मयोगिनां, छात्राणां च अथकपरिश्रमस्य परिणामः अस्ति। ‘कर्म एव पूजा’ इति मन्त्रात् एव एतत् सम्भवम्। महोदय: अस्मिन्नवसरे विश्वविद्यालयाय दत्तस्य मार्गदर्शनस्य समर्थनस्य च कृते राज्यस्य मुख्यमन्त्रीं, उच्चशिक्षामन्त्रीं च प्रति आभारं प्रकटितवान्। तथा च विश्वविद्यालयपरिवारस्य अभिनन्दनं कृतवान्। ऐतिहासिकोपलब्धिविषये प्रसन्नतां प्रकटयन् कुलसचिवेन प्रो.दिलीपसोनीमहोदयेन उक्तं यत् विश्वविद्यालयस्य कृते अयं परिणामः बहुप्रतीक्षितः आसीत्। तत्र वहव्य: समस्याः आसन् तथा च प्रथमवारं एनएएसी मूल्याङ्कनम् अस्माकं कृते चुनौतीपूर्णम् आसीत् किन्तु कुलपतेः मार्गदर्शनेन सर्वेषां सामूहिकप्रयत्नेन च एषा सफलता लब्धा।
आईक्यूएसी निदेशक: डॉ. तुलसीदासपरोहामहोदयेन उक्तं यत् कुलगुरु: कार्यभारं स्वीकृत्य एव (एनएएसी) मूल्याङ्कनं करणीयं इति विषये स्वाभिप्राय: अवदत्। यस्य परिणामेन अद्य विश्वविद्यालयः उत्तमश्रेण्या सह प्रत्यायित:, विकासमार्गे तीव्रगत्या च प्रगतिशीलः वर्त्तते। एनएएसी संयोजकः डॉ. शुभमशर्मवर्य: उक्तवान् यत् अस्माकं दृढनिश्चयेन इच्छाशक्तिबलेन च इतिहास: रचितः अस्मिन् कर्मणि सम्पूर्णस्य विश्वविद्यालयपरिवारस्य अभूतपूर्वपरिश्रमः सङ्कल्प: च समाहित: आसीत्।