संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः
प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी
उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य पञ्चमदीक्षान्तसमारोहस्य आयोजनम् एकत्रिंशत् तमे दिनाङ्के उज्जयिन्याम् कालिदासाकादमी परिसरे अभवत्। कार्यक्रमस्य अध्यक्षः प्रदेशस्य माननीय: राज्यपाल: विश्वविद्यालयस्य कुलाधिपति: च श्रीमान्मङ्गुभाईपटेलवर्य: आसीत् । महोदयेन दीक्षान्तोपदेशे उक्तं यत् भारतीयशास्त्राणां संरक्षणे ज्ञानपरम्परायाः च प्रचारार्थं पाणिनिसंस्कृतविश्वविद्यालय: सराहनीयं कार्यं कुर्वन् अस्ति। महोदयेन “A” श्रेण्यां प्रत्यायनार्थं विश्वविद्यालयकुटुम्बस्य अभिनन्दनं च कृतम्। महोदय: छात्रान् सम्बोधयन् उक्तवान् यत् संस्कृतशास्त्रस्य गौरवपूर्णपरम्परा सम्पूर्णे विश्वे प्रचारितव्या। संस्कृतशास्त्रेषु करुणा, संवेदनशीलता, संस्कृतिः च अन्तर्भूता वर्त्तन्ते। समयस्य, शिक्षायाः च सदोपयोगेन व्यक्तिः जीवने सफलः महान् च भवति । उपाधिं प्राप्तानां सर्वेषां छात्राणां अभिनन्दनं कृत्वा महोदय: आह्वानं कृतवान् यत् छात्रा: संस्कृत्या – संस्कारेण- परम्परया सह धैर्यपूर्वकं अध्ययनेन स्वमातापितृणां सेवां च कुर्वन्तु इति अस्माकं कर्तव्यम्। मुख्यातिथि: प्रदेशस्य उच्चशिक्षातकनीकी-आयुषमन्त्री
श्रीमान्इन्दरसिंहपरमारवर्य: अवदत् यत् संस्कृतस्य छात्राः भारतीयज्ञानपरम्परायाः सम्वाहकाः सन्ति।
अयं संस्कृतस्य युग: प्रचलति भारतभूमिः प्राचीनकालात् एव ज्ञानस्थली भारतं पुनः विश्वगुरुं कर्तुं वयं अग्रे गच्छामः। संस्कृतं योगगायुर्वेद-विज्ञानस्य च जननी। सारस्वतातिथि: आचार्य: बालकृष्ण:,माननीय:,कुलपति: पतञ्जलिविश्वविद्यालय:, हरिद्वारस्य अवदत् यत् दीक्षान्त: छात्राणां परिश्रमस्य सम्मानस्य च आयोजनं भवति। शिक्षा अस्मान् मोक्षस्य मार्गं दर्शयति। अस्माकं ज्ञानं सद्भावाय जनहिताय च भवेत्। संस्कृतस्य छात्राः भारतीयज्ञानपरम्परायाः सम्पूर्णे विश्वे प्रचारार्थं कटिबद्ध: भवेयुः।केंद्रीयसंगीतनाटककादमी, नवदेहली इत्यस्य अध्यक्षा डॉ. संध्यापुरेचामहोदया उक्तवती यत् संस्कृतं वेदोपनिषदविज्ञानस्य च भाषा सर्वतोमुखविकासाय संस्कृतं सर्वाधिकम् उपयुक्ततमं वर्त्तते। कलाज्ञानसंरक्षणाय च संस्कृताध्ययनम् आवश्यकम्। कार्यक्रमे विशिष्टातिथिरूपेण बालयोगीसंतउमेशनाथमहाराज:, राज्यसभासांसद: वाल्मीकीधाम, पीठाधीश्वर: च उपस्थितः आसीत्। एवञ्च उज्जयिनी सांसद:, श्रीमान्अनिलफिरोजिया वर्य: ,उज्जयिनीउत्तरक्षेत्रस्य विधायक: श्रीमान्अनिलजैनवर्य: (कालुहेडा) उपस्थिता: आसन्। प्रस्तावना, अतिथिपरिचय: च माननीय: कुलगुरुः प्रो.विजयकुमारसीजीवर्य: प्रस्तुवन् विश्वविद्यालयस्य उपलब्धीनां प्रगतिप्रतिवेदनं च प्रस्तुत्वान् । अस्मिन्नवसरे कुलगुरुणा लिखितं पुस्तकं राज्यपालेन विमोचितम्। कुलसचिवेन प्रो.दिलीपसोनीमहोदयेन आभारं प्रकटितम् । समारोहे कार्यपरिषद्सदस्याः डॉ. विश्वासव्यास:,अधिवक्ता गीतांजलिचौरसिया, श्रीमान्गौरवधाकड:, डॉ.हरीशव्यास:, श्रीमतीसुमिना अनिललिग्गा, डॉ. केशरसिंहचौहान:, डॉ.अजयसिंहराठी, संबद्धमहाविद्यालयस्य, प्राचार्या: संकायप्रमुखाः, विभागाध्यक्षा: प्राध्यापक:,विद्वान्सः, छात्राः अन्ये गणमान्यजनाः च उपस्थिताः आसन् | कार्यक्रमस्य सञ्चालनं समन्वयकेन: डॉ.उपेन्द्रभार्गववर्येण कृतम् । समारोहे २०२२-२३ सत्रे उत्तीर्णा: १३४९ स्नातका: २०२३-२४ सत्रे च उत्तीर्णा: १०१२ छात्रा: उपाधिं प्राप्तवन्त:। ७९ छात्राणां कृते राज्यपालमहोदयेन स्वर्ण-रजत-कांस्यपदकैः सह उपाधिः प्रदत्ता: । तेषु ५ विद्यावारिधि: (पीएचडी) २६ स्वर्णपदकानि, २५ रजतपदकानि, २३ कांस्यपदकानि च प्रदत्तानि । विश्वविद्यालयेन पतञ्जलियोगविश्वविद्यालयस्य कुलपतये आचार्यबालकृष्णवर्याय योग-संस्कृत-आयुर्वेदस्य च क्षेत्रे योगदानाय एवमेव नृत्य-नाट्यस्य च क्षेत्रे योगदानाय केंद्रीय संगीत-नाटक-अकादमी-नवदेहली इतस्य अध्यक्षायै डॉ. संध्यापुरेचामहोदयायै (डी.लिट्) महामहोपाध्यायस्य उपधिना विभूषिता।