मुख्यमन्त्री एचपीएसईडीसी इत्यस्मै युनां कृते विदेशेषु जीविकाया: अवसरान् अन्वेष्टुं निर्दिष्टवान्
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दसिंहसुक्खुः हिमाचलप्रदेशराज्यविद्युत्विकासनिगमस्य (एचपीएसईडीसी) संचालकमण्डलस्य सभाया: अध्यक्षतां कृतवान्। राज्यस्य युनां कृते विदेशेषु जीविकाया: अवसरान् प्रदातुं निगमाय निर्देशं दत्तवान्। विदेशेषु जीविकां प्राप्यमाणानां युनां कृते ट्रैक एण्ड् ट्रेस् सिस्टम् विकसितुं निगमं निर्देशितवान्।
सभायां प्रवासनविधान, १९८३ इत्यस्य अनुसारं चयनप्रक्रियायाः संचालनाय, विदेशेषु रोजगारार्थं श्रमिकाणां नियुक्त्यर्थं च अनुमोदनं दत्तम्। अस्य कृते निगमेन विदेशमन्त्रालये प्रवासिनः महासंरक्षकस्य कार्यालये नवीदिल्लीनगरे पञ्जीकरणं सुनिश्चितं कर्तव्यम्। समग्र शिक्षा अभियानस्य कार्यस्य निरन्तरतायै अपि संचालकमण्डलेन अनुमोदनं कृतम्। सभायां एचपीएसईडीसी इत्यस्मिन् JOA IT इत्यस्य द्वे पदे, बहूद्देश्यीयकार्यकर्तु: (Multi Task Worker) इत्यस्य द्वे पदे च पूरयितुं अनुमोदनं अपि दत्तम्।