हिमाचलप्रदेशे शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
हिमसंस्कृतवार्ता: शिमला। हिमाचलप्रदेशे गुणवत्तायुक्तशिक्षायै प्रदेश-सर्वकारेण संयुक्तराष्ट्रस्य शैक्षिक-वैज्ञानिक-सांस्कृतिक-संस्थया (यूनेस्को) सह सन्धिपत्रे हस्ताक्षरः कृतः। मुख्यमंत्री सुखविन्द्रसिंहसुक्खू-महाभागस्य उपस्थितौ प्रदेश-सर्वकारस्य पक्षतः शिक्षा-सचिवः राकेशकंवर-महाभागः, यूनेस्को-संस्थायाः पक्षतः निदेशक-प्रतिनिधिः टिमकर्टिस-महाभागः तथा शिक्षणकार्यक्रम-विशेषज्ञा जॉयसपोआन-महाभागा च इत्येते हस्ताक्षरं कृतवन्तः।
अस्मिन सन्धिपत्रेण यूनेस्को-संस्था हिमाचलप्रदेशस्य शिक्षा-क्षेत्रस्य आधुनिकीकरणे साहाय्यम् दास्यति, यस्य अन्तर्गतं शिक्षा-पद्धतीनां सुदृढ़ीकरणं, पाठ्यक्रम-निर्माणं, शिक्षणप्रशिक्षणं, मूल्यांकनप्रणाली च समाविष्टानि। विद्यार्थीजनानाम् २१वीं शताब्द्याः कौशल-निर्माणं कृत्वा तेषां सृजनात्मकता, सहयोगः, संचारशक्तिश्च विकसिष्यन्ति। शिक्षा समावेशी, सतत्, भविष्योन्मुखी च भविष्यति। सन्धिपत्रान्तरम् अन्तर्गतं ग्रीन-एजुकेशन-प्रयोजनं विशेषरूपेण प्रोत्साहितं भविष्यति। पर्यावरण-जागरूकता सतत-विकास-संयुक्तं पाठ्यक्रमेषु स्थापितं भविष्यति, यथा छात्राः पर्यावरणसम्बद्धाः समस्याः सुलभतया परिहर्तुं शक्नुयुः। तदनुसारं, क्रीडायाः समावेशः कृत्वा नैतिक-मूल्याधारितशिक्षा प्रदास्यते, येन छात्राणां समग्रविकासः सुनिश्चितः भविष्यति। मुख्यमन्त्रिणा उक्तं यत् सर्वकारः डिजिटल-शिक्षायाः विस्तारं कृत्वा सर्वकारीविद्यालयान् स्मार्ट-विद्यालयेषु परिवर्तयति। हिमाचलप्रदेशस्य दुर्गम-प्रदेशेषु गुणवत्तायुक्त-शिक्षा प्रदीयते। सर्वकारेण गतद्वयवर्षेषु शिक्षाक्षेत्रे बहवः सुधारात्मकाः उपायाः कृताः, येषां सकारात्मकाः परिणामाः दृश्यन्ते। एतेन सम्ज्ञापत्रेण शिक्षा-मन्त्री रोहितठाकुर-महाभागेन उक्तं यत् सर्वकारः भविष्याधारित-कौशलं, वैश्विकस्तरीय-शिक्षां च सुनिश्चितुं कटिबद्धा अस्ति। उच्च-शिक्षा-निदेशकः डॉ. अमरजीतशर्मा, प्रारम्भिक-शिक्षा-निदेशकः आशीषकोहली च अन्ये गणमान्याः अपि उपस्थिताः आसन्।
मुख्यमन्त्रिणा “संभव” त्रैमासिक-पत्रिकायाः शुभारम्भः कृतः
शिमला-नगरस्य राज्य-सचिवालये मुख्यमन्त्रिणा सुखविन्द्रसिंहसुक्खू-महाभागेन समग्रशिक्षा-हिमाचलस्य त्रैमासिक-पत्रिकायाः “संभव” शुभारम्भः कृतः। मुख्यमन्त्रिणा उक्तं यत् एषा पत्रिका सर्वकारस्य शिक्षाक्षेत्रे कृतानां प्रयासानां सफलतानां च दर्पणं भविष्यति।”संभव” पत्रिकायाः माध्यमेन शिक्षकों छात्राणां च कृते कार्यशालाः, संगोष्ठयः, अन्यानि शिक्षणसम्बद्ध-कार्यक्रमाः प्रचारिताः भविष्यन्ति। शिक्षण-तकनीकी-नवाचारानां प्रचारं शिक्षण-पद्धतीनां परिष्करणं च अनेन साध्यं भविष्यति।
समग्रशिक्षा-निदेशकः राजेशशर्मा-महाभागेन उक्तं यत् “संभव” पत्रिका प्रदेशे शिक्षाक्षेत्रं नूतनदिशां दास्यति। शिक्षकाः प्रदेशे शिक्षासम्बद्ध-नवाचारानां ज्ञानं प्राप्य स्वविद्यालयेषु तस्य समुचितं प्रयोगं करिष्यन्ति। अस्मिन शुभारम्भ-समये शिक्षा-मन्त्री रोहितठाकुर-महाभागः, शिक्षा-सचिवः राकेशकंवर-महाभागः, उच्च-शिक्षा-निदेशकः डॉ. अमरजीतशर्मा, प्रारम्भिक-शिक्षा-निदेशकः आशीषकोहली च अन्ये अधिकारीगणः उपस्थिताः आसन्।
Unesco- शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment