जलसङ्कटं वैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलः
हिमसंस्कृतवार्ताः। सम्पूर्णविश्वे विश्वजलदिवसः आयोजितः। अयं दिवसः स्वच्छजलस्य महत्त्वं प्रकाशयति, जलसम्पदेः सुस्थिरप्रबन्धनं च पोषयति । विश्वव्यापिनः जलसङ्कटस्य निवारणार्थं जागरूकतां संवर्धयितुं च वैश्विकायोजनस्य अस्य लक्ष्यम् अस्ति। अस्मिन् वर्षे विश्व-जल-दिवसस्य विषयः ‘हिमनदीनां संरक्षणम्’ इति अस्ति, यत् वैश्विक स्वच्छजल आपूर्ति निवोंदुं हिमनदीनां महत्त्वपूर्णा भूमिकां, जलवायु परिवर्तनस्य सम्मुखे संरक्षणोपायानां तात्कालिकी आवश्यकतां च अवधानं करोति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य विश्वजलदिवसे जलसंरक्षणाय, सुस्थिरविकासाय च देशस्य प्रतिबद्धता पुनरुद्धाटिता। सामाजिकसंदेशपटले अयं जलसंरक्षणस्य महत्वं प्रकाशयन् दृष्याङ्कनमेकम् विनिमयीकृतवान्। जलम् सभ्यतानां जीवनरेखा अस्ति इत्यपि असी अवधानं दत्तवान् तथा च आगामि-सन्ततिं प्रति जलस्य संरक्षणस्य आवश्यकतायै अवधानं दत्तवान्। जलशक्तिमन्त्री सी आर पाटिलः अवोचत् यत् जलसङ्कटं वैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्। श्रीपाटिलः अत्रावसरे हरियाणाराज्यस्य पञ्चकुलायाः ताऊ देवी लाल-क्रीडाङ्गणे देशव्यापीनः जलशक्तिः अभियानस्य कैच दरेन इत्याख्यस्य शुभारम्भं कृतवान्। नौकेषां मन्त्रालयानां सहयोगेन प्रचाल्यमानस्य अस्य अभियानस्य प्रयोजनं अष्टचत्वारिंशदधिकैकशत-जनपदेषु वर्षाजलसञ्चयनं भूजल पुनर्भरणं जलसंरक्षणं च वर्तते। एतदतिरिच्य श्रीपाटिलः नदी-निर्झर-अरण्यानां मध्ये पारिस्थितिकसम्बन्धं प्रबलीकृत्य जल जङ्गल बन एकप्राकृतिक बन्धन अभियान इत्यभिनामधेयकस्य शुभारम्भकृतवान्।
जलसङ्कटं वैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलःवैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
