विपक्ष-सांसदानांविरोधस्य अनन्तरं संसदः उभे सदने दिवसपर्यन्तं यावत् स्थगिते
लोकसभा-विधानसभा क्षेत्रयोः प्रस्तावित परिसीमन् विषयमालक्ष्य डी. एम. के. दलस्य अथ अन्यविपक्ष-सांसदानां च विरोधस्य अनन्तरं संसदः उभे सदने दिवसपर्यन्तं यावत् स्थगिते। लोकसभायाम्, द्विवादने द्वितीय- स्थगनस्य अनन्तरं यदा सदनोपवेशनं जातम्, तदा सदनं दिवसपर्यन्तं यावत् स्थगितम्, यतः डी. एम. के. दलस्य सदस्याः पुनः प्रस्तावित परिसीमन-विषये विरोध-प्रदर्शनं प्रारब्धवन्तः। कोलाहल-कारणेन सदनम् आदिवसं यावत् स्थगितम्।
डी. एम. के. दलं तमिलनाडुराज्ये स्वस्य असफलताम् आच्छादयितुं संसदि ‘परिसीमन्’ इति विषयम् उत्थापयति-केन्द्रीयमन्त्री प्रहलाद जोशी
केन्द्रीयमन्त्री प्रहलाद जोशी आरोपितवान् यत् डी. एम. के. दलं तमिलनाडुराज्ये स्वस्य असफलताम् आच्छादयितुं संसदि ‘परिसीमन्’ इति विषयम् उत्थापयति। संसदः बहिः वार्ताहरैः सह वार्ता कुर्वन् सः अवदत् यत् केन्द्रप्रशासनं दक्षिणभारते अन्यायं न अनुमन्यते, जनगणनायाः अनन्तरं परिसीमनप्रक्रिया आरभ्यते इति। अत्रान्तरे दलस्य सांसदः कनिमोझी करुणानिधिः अवदत् यत् दलं निष्पक्ष-परिसीमनस्य आग्रहम् अकरोत् इति।
विपक्ष-सांसदानांविरोधस्य अनन्तरं संसदः उभे सदने दिवसपर्यन्तं यावत् स्थगिते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
