उत्तराखण्डे चारधामयात्रायै पञ्जीकरणं प्रारब्धम्
उत्तराखण्डे चारधामयात्रायै पञ्जीकरणं प्रारब्धम् अस्ति। अस्मिन् वर्षे पञ्जीकरणम् आधारप्रमाणीकृतं भविष्यति, पञ्जीकरणकाले श्रद्धालुभि: स्वस्य आधारपत्राणां विवरणं दातव्यं भविष्यति। ध्यातव्यं वर्तते यत् आहत्य षष्ठी-प्रतिशतं पञ्जीकरणम् आभासीयमाध्यमेन भविष्यति, येन तीर्थयात्रिणां कापि समस्या न भवेत्। एतस्याः प्रक्रियायाः सुगमतायै हरिद्वारं ऋषिकेशं च समेत्य समस्तयात्रामार्गेषु पञ्जीकरणकेन्द्राणां सङ्ख्या वर्धिता भविष्यति। तीर्थयात्रिणः registrationandtouristcare.uk.gov.in इत्यत्र आभासीय-माध्यमेन पञ्जीकरणं कर्तुं शक्नुवन्ति। भक्तानां सौविध्याय पर्यटनविभागेन अस्मिन् वर्षे यात्रायाः चत्वारिंशत्-दिवसात् पूर्वम् इयं पञ्जीकरणप्रक्रिया समारब्धा।
उत्तराखण्डे चारधामयात्रायै पञ्जीकरणं प्रारब्धम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
