छत्तीसगढ़े द्वयोः भिन्न घटनयोः त्रिंशत्- माओवादिनः मारिताः
हिमसंस्कृतवार्ताः। छत्तीसगढ़े द्वयोः भिन्न घटनयोः त्रिंशत्- माओवादिनः मारिताः। माओवादिभिः सह सङ्घर्षे जनपद- रिजर्व- आरक्षिबलस्य एकः आरक्षकः अपि दिवङ्गतः। बीजापुर- दन्तेवाडा- जनपदयोः सीमाक्षेत्रे स्थितेषु वनेषु माओवादिनः उपस्थिताः सन्ति इति गुप्तसूचनाः सुरक्षासेनां प्राप्तानि आसन्। इमां गुप्तसूचनाम् अनुसरन् सुरक्षासेनानां संयुक्तदलेन अन्वेषणकार्यम् आरब्धम्। अद्य प्रातःकालात् गङ्गालूरक्षेत्रे सुरक्षासेनानां माओवादिनां च मध्ये गोलिकाप्रहारः जातः। गतसायं यावत् षड्विंशति-माओवादिनां शरीराणि प्राप्तानि सन्ति। अस्मिन् क्षेत्रे अन्वेषणकार्यम् अधुनापि प्रचलति। छत्तीसगढस्य काकेर-जनपदे अन्यस्मिन् अभियाने सुरक्षासेनानां माओवादिनां च मध्ये गोलिकाप्रहारेण चत्वारः माओवादिनः मारिताः।
छत्तीसगढ़े द्वयोः भिन्न घटनयोः त्रिंशत्- माओवादिनः मारिताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
