प्रधानमन्त्रिणा नरेन्द्रमोदिना कृता न्यूजीलैण्ड्-देशस्य स्वसमकक्षेण क्रिस्टोफर् लक्सन् इत्यनेन सह विशेषवार्ता
हिमसंस्कृतवार्ताः। नवदेहल्यां न्यूजीलैण्ड्-देशस्य स्वसमकक्षेण क्रिस्टोफर् लक्सन् इत्यनेन सह वार्तालापः साधितः। चर्चायामस्यां भारत-न्यूजीलैण्ड् देशयोः सम्बन्धस्य विभिन्नाः पक्षाः सम्मिलिताः आसन्। श्रीमोदी अतिथिविशेषस्य सम्मानार्थ मध्याह्नभोजनम् अपि आयोजितवान्। स्ववक्तव्ये, श्री मोदी अवदत् यत्, असौ द्विपाक्षिक-सम्बन्धस्य विभिन्नेषु विषयेषु विस्तृतचर्चा कृतवान्, अपि च उभौ पक्षौ रक्षा-सुरक्षयोः सहभागितां सुदृढं संस्थागतं च कर्तुं निर्णयम् अकुरुताम्। श्रीमोदी उक्तवान् यत् संयुक्त-अभ्यासैः, प्रशिक्षणैः, नौकाश्रय-भ्रमणैश्च सह रक्षा-उद्योगक्षेत्रे अपि परस्परसहयोगाय अनेन मार्गः सज्जीभविष्यति । प्रधानमन्त्री अवदत् यत्, उभयोः देशयोः मध्ये परस्पर-लाभप्रदं मुक्तव्यापारसहभागितायां वार्तालापोपक्रमस्य निर्णयो सञ्जातः, येन परस्परव्यापारस्य निवेशस्य च सम्भावना वर्धयिष्यति। आतंकवादस्य, पृथकतावादीनां, चरमपन्थी-तत्त्वानां विरुद्धं भारत-न्यूजीलैण्ड्-देशयोः सहकारः निरन्तरं भविष्यति इति प्रधानमन्त्री अवदत्। सः अवदत् यत्, उभौ पक्षौ स्वतन्त्रं, मुक्तं, सुरक्षितं, समृद्धं च इण्डो-पेसिफिक् इत्यस्य समर्थनं कुरुतः, विस्तारवादे न तु विकास-नीतौ विश्वसतः । स्वस्य वक्तव्ये श्री लक्सन इत्येषः अवदत् यत् उभौ पक्षौ परस्परं लाभप्रदं मुक्तव्यापारसमन्वयं साधयितुं उत्सुकाः सन्ति इति। सः अवदत् यत्, न्यूजीलैण्ड्-देशः भारते स्वस्य कूटनीतिक-उपस्थितिं वर्धयिष्यति इति। श्री लक्सन् गतसायङ्काले राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदीमुर्मु इत्यनया सह मन्त्रणां कृतवान्।
विदेशमन्त्रालयस्य पूर्वसचिवः जयदीप मजूमदारः अवदत् यत्, गतवर्षे भारत-न्यूजीलैण्ड्-देशयोः मध्ये अनेके उच्चस्तरीयाः सम्पर्काः अभवन् इति। खालिस्तानीय-तत्त्वानां विषये चर्चायाः समये प्रश्नस्य एकस्य विषये सचिवः अवदत् यत् द्वयोः नेत्रोः मध्ये वार्तालापस्य समये अयं विषयः उद्भूतः इति। सः अवदत् यत्, भारतं तेषु देशेषु भारत-विरोधी-तत्त्वानां गतिविधीनां विषये, आतङ्कवादस्य वैभवीकरणार्थं भाषणस्वातन्त्र्यस्य तथा च अन्यानां लोकतान्त्रिकस्वातन्त्र्यानां च दुरुपयोगस्य विषये सावधानतामाचरति। मजूमदारः अवदत् यत्, न्यूजीलैण्ड्-देशस्य सर्वकारः ग्रहणशीलः अस्ति, अतीते अपि चिन्ताः स्वीकृतवान् अस्ति। इतः पूर्वं श्री लक्सन इत्येषः राजघट्ट गत्वा महात्मागान्धी-वर्यस्य समाधौ श्रद्धाञ्जलिम् समर्पितवान्।न्यूज़ीलैण्ड्-देशस्य प्रधानमन्त्री भारतस्य पञ्चदिवसीयप्रवासावधौऽ परह्यः नवदेहली-नगरं आगतवान्। तेन सह मन्त्रिणः, वरिष्ठाः अधिकारिणः, व्यापारिणः, सञ्चारमाध्यमाः, भारतीय-प्रवासी-समुदायस्य सदस्याः च समेत्य उच्च-स्तरीय प्रतिनिधिदलम् अस्ति। श्री लक्सन् वर्यस्य यात्रायाः उद्देश्यं उभयोः देशयोः मध्ये द्वैपाक्षिकसम्बन्धं सुदृढं कर्तुं, सर्वेषु क्षेत्रेषु सम्बन्धान् दृढतरं कर्तु, प्रत्येकैः जनैः सह सम्बन्धानां दृढीकरणम् इत्यस्ति। न्यूज़ीलैण्ड्-देशस्य प्रधानमन्त्री बुधवासरे मुम्बई-नगरं प्रति गमिष्यति।
प्रधानमन्त्रिणा नरेन्द्रमोदिना कृता न्यूजीलैण्ड्-देशस्य स्वसमकक्षेण क्रिस्टोफर् लक्सन् इत्यनेन सह विशेषवार्ता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
