ललितपुरे नेहरूमहाविद्यालये संस्कृतसंगोष्ठी अभवत्
हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, ललितपुरम्।
उत्तरप्रदेश- सर्वकारस्य भाषाविभागः, उत्तरप्रदेशसंस्कृतसंस्थानं लखनऊ, संस्कृतविभागः, ललितपुरस्य नेहरू महाविद्यालय- समयुक्ताश्रयेन् एकदिवसीया संगोष्ठी आयोजिता। तस्या: विषय: “संस्कृतसाहित्यस्य सांस्कृतिक- सामाजिक- योगदानेन” संस्कृतभाषाविषये एकदिवसीयां राष्ट्रियसंगोष्ठीम् आयोज्य, उपर्युक्तावश्यकतानुसारं, युवानां आवश्यकतानुसारमेव वेदसाहित्ये लिखितम्। अस्माभिः उपनिषद् इति दर्शनम्। शास्त्रं, पुराणं, महाकाव्यं रामायणं, महाभारतम्, आयुर्वेद:, ध्वनिशास्त्रं, भूविज्ञानं, धर्मशास्त्रं, नीतिशास्त्रं, काव्यीनां परिचयं करणीयमेव। संगोष्ठ्या: उद्घाटनं महाविद्यालयस्य प्रबन्धक: प्रदीपचौबे मातु: सरस्वत्या: आराधना, आगंतुकविदुषां च सम्मानेनाकरोत्। कार्यक्रमे मुख्यातिथिरूपेण हरगोविन्दकुशवाहा अखिलभारतीय: उपाध्यक्ष: बौद्धसंस्थानं समुपस्थिता: आसन्। अस्या: गोष्ठ्या: समन्वयकत्वेन उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रतिनिधिभूतत्वेन संस्थानस्य पूर्वसदस्य:, श्रीवामदेव- संस्कृत- महाविद्यालय- बांदाजनपदस्य सहायकव्याकरणविभागाध्यक्ष:, संस्कृतभारती कानपुरप्रान्तस्य सहप्रान्तसङ्घटनमन्त्रित्वेन सुरभारतीसमाराधका: डॉ. रत्नेशत्रिवेदीवर्य: समागत:। अस्याः संगोष्ठ्या: अध्यक्षतां महाविद्यालयस्य प्राचार्य: कृतवान्। प्रो. डॉ. ओमप्रकाशशास्त्रिणा सर्वेषां कृते आभारं प्रकटितवान्। गोष्ठ्याम् अस्याम् महाविद्यालयस्य विविधविभागीया: अध्यक्षा-महाविद्यालयस्य सर्वे सहायकाध्यापका: छात्रा: अन्ये अध्यापकाः अध्यापिकाः चोपस्थिता आसन्। महाद्यालये एतादृशः संस्कृतकार्यक्रमं दृष्ट्वा सर्वे नन्दिता: आनन्दिताश्चासन्।
ललितपुरे नेहरूमहाविद्यालये संस्कृतसंगोष्ठी अभवत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
