KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम्
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाप्रकोष्ठ-एवं अन्तर्गत-तक्रार-समित्याः सहकारेण सर्वेषां कर्मचारिणां कृते स्वास्थ्य-मधुमेह-दन्तपरीक्षा-शिबिरस्य आयोजनं कृतम् । महिलाविभागस्य समन्वयिका डॉ. राजश्रीमेश्रामः स्वस्य परिचये अवदत् यत् विश्वविद्यालयस्य कर्मचारिणां स्वास्थ्यजागरूकतां वर्धयितुं महिलाप्रकोष्ठः प्रतिवर्षं स्वास्थ्यशिबिराणां आयोजनं करोति।
प्रख्यातचिकित्सा विशेषज्ञ: डॉ. भूमेश्वर: नटकर: एवं दन्तविशेषज्ञ: डॉ. स्नेहल: नटकर: उपस्थितानां रोगिणां सफलतापूर्वकं शमनं कृतम्। अस्मिन् शिबिरे २०० तः अधिकाः कर्मचारिण: लाभान्विताः अभवन् । कुलपति प्रो. हरेराम: त्रिपाठी एवं कुलसचिव: डॉ. देवानन्द: शुक्ल: अपि स्वास्थ्यपरीक्षणं अकारयताम्।
कुलपतिना सर्वे कर्मचारिणः एतादृशानां स्वास्थ्य-उपक्रमानाम् लाभं ग्रहीतुं प्रोत्साहिता: तथा च डॉ. मेश्रामाया: स्वास्थ्य-जागरूकता-शिबिरस्य प्रशंसा कृता। कुलसचिव: डॉ. शुक्लः स्वास्थ्यसेवायाः महत्त्वं प्रकाशयन् सर्वेभ्यः स्वस्वास्थ्यं प्राथमिकताम् अददत् इति आग्रहं कृतवान्।
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment