इमलिया इत्याख्ये ग्रामे सहर्षोल्लासं एनएसएस शिविरं स्वप्रभावं प्रकाशयति
केन्द्रीय -संस्कृत-विश्वविद्यालयभोपालपरिसरेण इमलियानाम्नि ग्रामे एनएसएस शिविरम् आयोज्यमानं वर्तते ।यस्यान्तर्गते तृतीयदिवसे दिनचर्यायां प्रातः काले योगासनानि व्यायामादि-अपेक्षितदिनचर्यां कृत्वा ग्रामभ्रमणेन जनानां प्रोत्साहनं कृतम्, अनेन ग्रामभ्रमणेन जनोत्कर्षता प्रभाविता। ‘श्रमेण सर्वं साध्यम्’ इति ध्येयवाक्यम् अनुसृत्य सर्वे स्वयं सेवकाः स्व-स्व कार्यं सोत्साहं निर्वहणमकुर्वन् तथाभूताः स्वयं सेवकाः न केवलं कार्यं कृतवन्तः अपितु सेवाजीवनमेव सर्वोपरि वर्त्तते इत्यपि अनुभूतवन्तः। ततः परं भोजनं क्षणिकविश्रामश्चासमभवत् ।
विशिष्टरूपेण मध्याह्नसत्रमासीत्, सत्रेऽस्मिन् बौद्धिकसत्रस्य आयोजनमासीत्। यस्यारम्भः माङ्गलिकसमुद्घोषेण दीपप्रज्वलेन साकं स्वामी विवेकानन्दमहोदयस्य प्रतिमापूजनं ततः परं ‘उठें समाज के लिए उठें’ इत्यस्य एनएसएसकुलगीतप्रस्तुति उमा दास प्रभृतिभिः छात्रवृन्दैः आलापिता, अथ च एतैः स्वयं सेवकैः अतिथीनां स्वागतसम्मानम् तिलकपुष्पगुच्छप्रदानेन बेजनियोजनेन च एनएसएस परम्परामनुसृत्य समपद्यत। तथा च स्वागतभाषणं राकेश वर्मा महोदयेन कृतम्, ततोर्ध्वं मुख्यातिथिवर्येण एच.आर.प्रभाकरमहोदयः
(सहायक निर्देशकः कृषिविभागः,
मध्यप्रदेशशासनम्) अस्मान्सर्वान् प्रभावपूर्णशैल्या साह्लादपूर्णरीत्या समुदबोधयन्। ते सम्यक् प्रत्यपादयन् यत् ‘राष्ट्रीय- सेवा -योजना’ कथमस्मान् उपकुरुते , समाजसेवया व्यक्तित्वस्य विकासः निर्दिष्टं कथं सम्पद्यत इति।
सभाध्यक्षत्वेन सुश्रीः योगिता पवारः, उपाध्यक्षत्वेन ज्ञानदेवश्चावर्तेताम्। क्रमेऽस्मिन्सभा संचालनं प्रशांतः कुमार मिश्रेण स्वानुभवकथनञ्च अर्पितः कुमारः, प्रयांशःपाठकः, दुर्गा प्रसादः, सुभद्रा, वनश्रीः चेत्यादिभिः छात्रैः कृतम्, सभायाः अन्ते औपचारिकं धन्यवादसमर्पणं भुवनमोहनवशिष्ठेन ज्ञापितम्,
एतस्मिन् क्रमे सायङ्कालीनक्रीडासु रूमाल झपट्टा करवस्त्रसंग्रहणं,राम रावण आदि क्रीडा सङ्क्रडीताः।
रात्रौ सांस्कृतिक-कार्यक्रमेण भोजनविश्रामेण च साकं तृतीयदिवसस्य संपूर्तिः समजायत। अवसरेऽस्मिन् संयोजकः डा. राकेश कुमार वर्मा, अध्यापकः डा. गोकुलानन्दः तिवारी, डा. एस् कृष्णा, डा. एस्. टी. पी. कनकवल्ली महोदयाः स्वयं सेविनः छात्राश्च सर्वे समुपस्थिताः आसन्।