अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य विजयध्वजः, ३ रजतपदकं २ कांस्यपदकं च प्राप्तवन्तः
योगशिक्षक: राकेशकण्डवाल:, नीलमपुरीविष्टः च उत्तराखण्डस्य प्रतिनिधित्वं कृतवन्तौ
हिमंस्कृतवार्ता:-कुलदीपमैन्दोला।
अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य योगक्रीडका: उत्कृष्टं प्रदर्शनं कृत्वा ३ रजतपदकम्, २ कांस्यपदकम् च प्राप्तवन्तः। अस्यां राष्ट्रस्तरीयस्पर्धायां ५ मार्चतः ८ मार्चपर्यन्तं आसीत्, यस्मिन् सम्पूर्णदेशस्य ३०० योगक्रीडका: सहभागं कृतवन्तः। उत्तराखण्डस्य योगदलस्य समर्पणं योगकौशलं च प्रशंसनीयम् वर्तते।
🏅 रजतपदकप्राप्ताः:
नीलमपुरीविष्टः (शारीरिकशिक्षिका, राजकीय-अन्तरविद्यालयः खीड़ा, अल्मोड़ा) – स्त्रीव्यक्तिगतवर्गे
राकेशकण्डवालः (शारीरिकशिक्षकः, राजकीय-अन्तरविद्यालयः काण्डाखालं कौड़िया, पौड़ीगढ़वालं – पुरुषव्यक्तिगतवर्गे
हिमांशुः शर्मा (शारीरिकशिक्षकः एवं प्रभारीप्रधानाध्यापकः, राजकीय-उच्चतरमाध्यमिकविद्यालयः कैडाग्राम:, नैनीतालं) – पुरुषव्यक्तिगतवर्गे
🥉 कांस्यपदकप्राप्ताः
नीलमनेगी –कलात्मकयोगासनस्पर्धायाम्
नीलमपुरीविष्टः –कलात्मकयोगासनस्पर्धायाम्
उत्तराखण्डदले नेतृत्वं च
उत्तराखण्डस्य योगदलस्य व्यवस्थापकः राकेशकण्डवालः अवदत् यत् अस्यां स्पर्धायां उत्तराखण्डस्य दलेन ५ पुरुषक्रीडका: ४ स्त्रीक्रीडका: च सहभागं कृतवन्तः। नीलमपुरीविष्टः प्रशिक्षकत्वे नियुक्ता आसीत्, या सर्वान् प्रेरयामास मार्गदर्शनं च अददात्।
समापनसमारोहे सर्वे विजेतारः प्रमाणपत्रैः पदकैश्च सम्मानिताः। उत्तराखण्डस्य योगसाधकाः कठोरपरिश्रमेण अनुशासनेन दृढ़निश्चयेन च दर्शितवन्तः यत् ते राष्ट्रस्तरे अन्ताराष्ट्रियस्तरे च योगासनक्षेत्रे दृढं स्थानं प्राप्तुं समुत्सुकाः सन्ति।
🏆 उत्तराखण्डस्य एषा ऐतिहासिकसिद्धिः सर्वेभ्यः योगसाधकेभ्यः प्रशिक्षकेभ्यः खेलप्रेमिभ्यश्च हार्दिकं अभिनन्दनम् करोति। एषा उपलब्धिः भविष्ये योगसाधकान् स्वर्णपदकं प्राप्तुं प्रेरयिष्यति, उत्तराखण्डं च योगशक्तेः केन्द्रं करणाय महत्त्वपूर्णं योगदानं करिष्यति।