महाकुरुषः श्रीश्रीदेवदामोदरदेवः
(जन्मदिनविशेषः) नयनज्योतिशर्मा, असम
भारतवर्षः ऋषि-मुनीनां जन्मभूमिः । कालान्तरे अस्मिन भूभागे अनेकाः महापुरुषाः स्वजन्मना भारतमातुः मानवर्धनम् अकरोत् । तेषु महापुरुषेषु अस्ममप्रदेशस्य नवग्रममण्डलस्य नलचा इति ग्रामे फाल्गुनमासस्य शुक्ला-एकादशितिथौ ( गोविन्द-एकादश्याम्) गुरुवासरे रेवतीनक्षत्रे 1488तमे ख्रीष्टाव्दे महापुरुषदेवदामोदरदेवस्य जन्ममभवत् । दामोदरदेवस्य पिता सदानन्दमिश्रः माता सुशीलादेवी चास्ताम् । दामोदरदेवस्य पिता वैदिकशिक्षायाः विस्तारे नियोजितमासीत् । वस्तुतः असमप्रदेशे तस्मिन् काले आहोमवंशीयानां राजानां राजत्वम् आसीत् । तेषु नृपतिषु चुचेनफानृपतेः आग्रहानुसारं सदानन्दमिश्रदेवः तस्मिन् वैदिकशिक्षाप्रचारकार्ये नियोजितमासीत् ।
उपनयनसंस्कारानन्तरं सदानन्दमिश्रेण स्वकीयटोले (गुरुकुले) पुत्रदामोदरदेवस्य प्रथमिकशिक्षां प्रायच्छत् । एवं उच्छशिक्षार्थ जन्मस्थानात् त्रिकिलोमिटारपरिमिते दूरे बामुनवडीग्रामे प्रख्यातसंस्कृतपण्डितः कलापचन्द्रभट्टाचार्यस्य संस्कृतटोले नामकरणम् अकरोत् । एवं षोडशवर्षं यावत् दामोदरदेवस्य सम्पूर्णं वैदिकशिक्षायाः समाप्तमभवत् ।
अध्ययानन्तरं यथाकाले देवदामोदरस्य सीतादेव्या सह विवाहकार्यं सञ्जातः । परन्तु विवाहानन्तरमेव दामोदरेवस्य परिवारे पितामातासमन्वितम् अनेकानाम् आत्मीयानां मृत्युवसात् विपर्ययः समागतः । तस्मिन् विपर्यये सपत्निकं दामोदरदेवः असमप्रदेशस्य प्राचीनवैष्णवधामं हयग्रीवमन्दिरस्थितं हाजो इति स्थानं प्रति आगतः । एव पूर्वपुरुषानां दायित्वानुसारं हयग्रीवमाधवमन्दिरे सः पूजार्चनायां तथाच भगवतः पाठकार्ये आत्मानं नियोजितवान् ।
कालान्तरे हयग्रीवमाधवमन्दिरे श्रीश्रीदेवदामोदरदेवेन सह तीर्थभ्रमणाय ओडिश्यातः समागतः नारदमुनिख्यातः वसुदेवस्य सम्पर्कमभवत् । परमपण्डितस्य वसुदेवस्य तत्वज्ञानेन प्रबुद्धः सन् दामोदरदेवः तस्मिन् दीक्षाग्रहणम् अकरोत् ।
पुनः स्वपत्नी-भ्रात्रॄणां मरणानन्तरं दामोदरदेवः सांसारिकमोहात् विरक्तः सन् श्रीमद्भागवद्गीतायाः आदर्शेन भगवतः श्रीकृष्णपरब्रह्मणः उपासनयाम् आत्मानं नियोजितवान् । तस्मिन्नेव समये बरपेटायाः पाटवाउसी इति स्थाने श्रीमन्तशंकरदेवस्य धर्मकृतिः सर्वत्र प्रचारितम् आसीत् । एवं दामोदरदेवस्य पाटवाऊश्याम् एव शंकरदेवेन सह प्रथमं परिचयः तदनु वैष्णव-धर्मप्रचारकार्ये नियुक्तवान् ।
यागाः त्रिप्रकारकाः भवन्ति । एकाहयागः, अहीनयागः, सत्रयागश्च । आवर्षं यावत् आचरितं यागः यत्रयागः । शंकरदेवेन पूर्वं नामघर-थान-इत्यादिभिः नामभिः या आश्रमव्यवस्थायाः स्थापनां कृतं तस्यैव नुतनं रूपं दामोदरदेवेन सह मिलित्वा सत्रम् इति नाम्ना कृतम् । एवं बरपेटायाः पाटवाउसी इति स्थाने असमस्य वैष्णवाश्रमव्यवस्थायाः प्रथमम् आश्रमम् सत्रम् इति स्थापितम् । एवं परवर्तिकाले शङ्कदेव-माधवदेव-दामोदरदेव-हरिदेवप्रभृतिभिः महापुरुषैः सह मिलित्वा असमक्षेत्रे सत्रपरम्परायाः विकाशम् अभवत् ।
अनेन प्रकारेण महापुरुषः श्रीश्रीदामोदरदेवेन असमक्षेत्रे वैदिकाश्रमव्यवस्थायाः नुतनं रूपं प्रदाय तस्य कृते जीवनं समर्प्य 1598 तमे ख्यीष्टाव्दे वैशाखमाशे शुक्लाप्रतिपदतिथौ वैकुण्ठधामं प्रति गमनम् अकरोत् । अद्य अस्य महापुरुषस्य पवित्रजन्मतिथौः वयं स्वश्रद्धं स्मरामः अभिनन्दनानि च ज्ञापयामः ।
महाकुरुषः श्रीश्रीदेवदामोदरदेवः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment