बिलासपुरे हिमाचलराज्यसंस्कृतशिक्षकपरिषदः समागमः
जुलाईप्रथमे सप्ताहे भविष्यति राज्यस्तरीयं निर्वाचनम्
हिमसंस्कृतवार्ता: – बिलासपुरम्।
हिमाचलराजकीयसंस्कृतशिक्षकपरिषद: सभा संस्कृतिभवने बिलासपुरे प्रदेशाध्यक्षस्य डा.मनोजशैलस्य अध्यक्षतायां सम्पन्ना। अस्मिन् सत्रे अध्यक्षः सूचितवान् यत् परिषदः त्रिवार्षिककार्यकालः समाप्ति पथि अस्ति, अतः आगामिसत्रस्य सदस्यताभियानम् अद्यैव आरभ्यते। अस्मिन् सन्दर्भे मईमासे खण्डस्तरीयनिर्वाचनं जूनमासे च सर्वेषां मण्डलानां निर्वाचनं करणीयम्। जुलाईमासस्य प्रथमसप्ताहे राज्यस्तरीयनिर्वाचनं भविष्यति।
कोरोनाकाले प्रतिगृहं पाठशाला, संस्कृतप्रश्नोत्तरी च समर्थितानां संस्कृतशिक्षकाणां तथा राज्ये संस्कृतक्षेत्रे उत्तमं कार्यं कुर्वतां संस्कृतशिक्षकाणां सम्मानं कर्तुं परिषदः परामर्शम् अददत्।। एषः सम्मानकार्यक्रमः परिषदः कार्यकाले एकवारं आयोजितः भविष्यति। सभायां हिमाचलप्रदेशे संस्कृतशिक्षकाणां नियुक्तिपदोन्नतिनियमानां विसंगतिविषये संयुक्तवक्तव्ये सर्वकारेण तस्मिन् आवश्यकसंशोधनं कर्तव्यमिति उक्तम्। यदा यदा पुनरीक्षणसमित्याः समागमः भवति तदा तदा परिषदः प्रतिनिधय: अपि समाविष्टाः भवेयुः ।
नियमा: टीजीटी पदस्य वेतनमानं पदोन्नति: च सी एण्ड वी संवर्गस्य एतद् नोचितम्- आचार्य: ललित: शर्मा
संस्कृतशिक्षकपरिषद: सङ्घटनमन्त्री आचार्य: ललित: शर्मा अवदत् यत् सर्वकारेण संस्कृतशिक्षकाणां नियुक्ति: एवं पदोन्नति: इति नियमा: अधिसूचिता: सन्ति। परन्तु विडम्बना वर्त्तते यत् नियमा: तु टीजीटीपदस्य सन्ति परन्तु वेतनमानं पदोन्नति: च सी एण्ड वी संवर्गस्य सन्ति। आश्चर्यं तु एतद् वर्त्तते यत् टीजीटीसंस्कृत इत्यत: टीजीटी-आर्टस् इति पदे पदोन्नति: भविष्यति। एतद् सर्वथा अनुचितं वर्त्तते। अतः निवेदनम् वर्तते यत् नियमेषु यथापेक्षितं संशोधनं भवेत्। परिषद: या याचना आसीत् तदनुगुणं नियमेषु संशोधनार्थं एका समिति: निर्मिता: भवेत्। यस्यां संस्कृतमहाविद्यालयानां विद्यालयीयसंस्कृतशिक्षकाणां च प्रतिनिधय: विषयविशेषज्ञा: च सम्मिलिता: भवेयु:।