भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला
विभागाध्यक्षा समन्वयिका च प्रो. कुसुमडोबरियालवर्या, संयोजक: डॉ. दिनेशकृष्णपाण्डेय: इत्यनयो: द्वयो: च कुशलनेतृत्वे द्विदिवसीया संगोष्ठी सफलतया सुसम्पन्ना।
वार्ताहर:- कुलदीप मैन्दोला, पौडी।
हेमवतीनन्दनबहुगुणा- गढ़वालविश्वविद्यालयस्य संस्कृतविभागेन पौड़ीपरिसरे द्विदिवसीया राष्ट्रीयसंगोष्ठी आयोजिता। संगोष्ठ्याः शुभारम्भः उद्घाटनसत्रेण अभवत्, यत्र अध्यक्षता प्रो. यू. सी. गैरोला (परिसरनिदेशकः, डॉ. बी. जी. आर. परिसरः, पौड़ी) इत्यनेन कृत:। कार्यक्रमस्य संयोजकेन डॉ. दिनेशकृष्णपाण्डेयेन समस्तानाम् अतिथीनां प्रतिभागिनां च सादरं स्वागतं कृतम्।
संगोष्ठ्याः प्रारम्भे शोधछात्र-छात्राभिः सरस्वतीवन्दना स्वागतगीतं च प्रस्तुतम्, येन वातावरणे आध्यात्मिकं विद्वत्संयुक्तं च ओजः संचारितम्। तत्पश्चात् विभागाध्यक्षया समन्वयिकया च प्रो. कुसुमडोबरियालमहोदयया अतिथीनां स्वागतं कृत्वा संगोष्ठ्याः उद्देश्यं महत्वं च प्रतिपादितम्।
मुख्यबिन्दवः
1. विशिष्टातिथिः प्रो. पी. पी. बड़ोनीमहोदयः भारतीयसंस्कृतेः महत्त्वं तस्याः अद्यतनप्रासङ्गिकत्वं च विवेचितवान्।
2. सम्मानितातिथिः प्रो. अनूप के. डोबरियालमहोदयः भारतीयसंस्कृतेः गुरुशिष्यपरम्परा, वाणीशालीनता, सहिष्णुता, सत्यं, अहिंसा, करुणा, सेवाभाव: इत्येतेषां मूल्यविशेषाणां महत्त्वं प्रतिपादितवान्।
3. मुख्यातिथिः प्रो. पी. वी. वी. सुब्रह्मण्यममहोदय: (निदेशकः, केन्द्रीयसंस्कृतविश्वविद्यालय- रघुनाथकीर्तिपरिसर: देवप्रयागत:) प्राचीनभारतीय- संस्कृतेः संरक्षणे उत्थाने च सारगर्भितं व्याख्यानं दत्तवान्।
4. अध्यक्षीयसंबोधनम् – प्रो. यू. सी. गैरोलामहोदयः भारतीयसंस्कृतेः वर्तमानसमाजे प्रासङ्गिकत्वं विवेचितवान् तथा संगोष्ठ्याः सफलतायाः शुभकामनां दत्तवान्।
तकनीकीसत्रे-
उद्घाटनसत्रानन्तरं द्वे तकनीकीसत्रे आयोजिते, यस्मिन् विषयविशेषज्ञाः स्वविचारान् प्रस्तुतवन्तः—
1. डॉ. सच्चिदानन्द स्नेही (केन्द्रीय- संस्कृत- विश्वविद्यालय- रघुनाथकीर्तिपरिसरदेवप्रयागत:) महोदयः भारतीयदर्शने निहिते नैतिकमूल्ये विशेषव्याख्यानं दत्तवान्।
2. डॉ. जनार्दनसुवेदी (केन्द्रीय- संस्कृत- विश्वविद्यालय- रघुनाथकीर्तिपरिसर- देवप्रयागत:) महोदयः सत्यज्ञानयोः सिद्धान्तं विस्तरेण प्रतिपादितवान्।
तत्पश्चात् शोधछात्रैः भारतीयसंस्कृतेः मौलिकमूल्येषु राष्ट्रनिर्माणे च तेषां प्रासङ्गिकत्वे शोधपत्राणि प्रस्तुतानि। सर्वेषां विद्वत्संवादेन संगोष्ठ्याः प्रथमदिवसः अतीव ज्ञानवर्धकः प्रभावशाली च अभवत्।
द्वितीयदिवसस्य सफलसमापनम्-
द्वितीयदिवसेऽपि सारगर्भितेऽस्मिन् अकादमिकविमर्शे विद्वांस: शोधार्थिनः च सक्रियतया भागं गृहीतवन्तः।
तकनीकीसत्रे-
द्वितीयदिवसस्य आरम्भे अपि द्वे तकनीकीसत्रे आयोजिते, यत्र शोधपत्राणि वाचितानि। तत्र भारतीयसंस्कृतेः मौलिकमूल्येषु, तेषां प्रासङ्गिकत्वे, राष्ट्रनिर्माणे च तेषां भूमिकायां गभीरचर्चा कृता।
समापनसत्रम्-
समापनसत्रे अध्यक्षाः अतिथयश्च संगोष्ठ्याः प्रमुखनिष्कर्षान् प्रतिपादितवन्तः। संगोष्ठ्याः निष्कर्षेषु प्रतिपादितं यत्-
“भारतीय- संस्कृत- परम्पराः केवलं अतीतानां धरोहरः न, अपि तु आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य आधारशिला अस्ति।” समापनसमये आयोजकैः सर्वेषाम् अतिथीनां, शोधार्थिनां, सहभागिनां च कृतज्ञता व्यक्ता। सर्वे सहभागिनः संस्कृतविभागं (हेमवतीनन्दनबहुगुणा- गढ़वालविश्वविद्यालय) प्रति सफलसंयोजनाय अभिनन्द्य भविष्येऽपि एवं विद्वत्संगोष्ठीनां आयोजनस्य आशां प्रकटितवन्त:।
भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment