KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:
हिमसंस्कृतवार्ता: – रामटेकम्।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य रामटेकस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा , द्वितीयः चलच्चित्रमहोत्सवः “चित्ररङ्गः” आचरित: । यत् चलच्चित्रसङ्घस्य स्थापनायाः ३ वर्षाणां पूर्णताया: प्रतीक: वर्तते । महोत्सवस्य उद्घाटनं कुलपति प्रो. हरेराम: त्रिपाठी, छात्र कल्याण निदेशक प्रो. जयवंत: चौधरी, परिसरनिदेशक: प्रो. दीपः हरेकृष्ण अगस्ती, शास्त्रविद्या गुरुकुलस्य निर्देशकः राघवेन्द्रभट्टः च दीपान् प्रज्ज्वाल्य अकुर्वन् । छात्राणां मध्ये सृजनशीलतायाः प्रवर्धनार्थं एतादृशाः कार्यक्रमाः निरन्तरं भवितव्याः इति कुलपतिः वक्तव्यं कृतवान्। तथा चित्रलहरी मार्गेण अन्वेषणं प्रत्यक्षी कृत्वा भविष्यत् परियोजना: प्रोत्साहिता:। उद्घाटनकार्यक्रमस्य संचालनं अथर्व भारद्वाज:, परिचय: डॉ. आशीष जे द्वारा एवं धन्यवाद ज्ञापन नुपुर कुलकर्णी द्वारा विहितम्।
तदनन्तरं “Theatre & Modern Film Criticism” इति विषये चर्चासत्रस्य आयोजनं कृतम् । अस्मिन् चर्चासत्रे यथार्थ जाधव:, रूपेश: पवार, राजेन्द्र: मेश्राम: आदिभि: विशेषज्ञै: मार्गदर्शनं कृतम् । देविका हिंगणीकर एवं आदर्श तिवारी इत्येताभ्यां सत्रसंचालनं विहितम्। अस्मिन् नाटकानि चलच्चित्राणि च कथं अवगन्तुं शक्यन्ते, तेषां मनोवैज्ञानिकप्रभावाः, कलाचलच्चित्रव्यापारिकचलच्चित्रयोः भेदः, प्रयोगात्मकनाटकव्यापारनाटकयोः भेदः इत्यादयः विषयाः चर्चां कृतवन्तः । संस्कृत-नाट्य-चलचित्र-सम्बद्धान् संशयान् उत्थापय छात्राः सक्रियरूपेण भागं गृहीतवन्तः । विश्वविद्यालयस्य ३००त: अधिका: छात्राः महोत्सवे पञ्जीकरणं कृत्वा उत्साहेन भागं गृहीतवन्तः। परदिने च। लघुचलच्चित्रप्रदर्शनं ०८ मार्च २०२५ दिनाङ्के अभवत् यत्र ५ लघुचलच्चित्रप्रदर्शनं कृतम् हत्याकाण्डः, वानरपर्वतः, भग्नमेजः, ओध – लालसा, बाया (murder act, monkey hill, the broken table, Odh – longing, Baya )
प्रदर्शनानन्तरं चलच्चित्रक्लबप्रमुखेन अथर्वभारद्वाजचित्रराङ्गचलच्चित्रमहोत्सवे केकेएसयू रामटेकस्य छात्रैः अद्भुतसत्रेण सह चर्चासत्रं सम्पन्नम्
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment