त्रिपुरायाम् एकलव्यपरिसरे अन्तर्राष्ट्रियनारीदिससमारोहः समायोजितः
केन्द्रीयसंस्कृतविश्वविद्यालयस्प एकलव्यपरिसरे 08 /05/ 2025 इति दिनांके शनिवासरे अन्तर्राष्ट्रियनारीदिवससमारोहः समायोजितः । तत्र मुख्यातिथित्वेन उपस्थिताः आसन् ईकफाई(ICFAI) विश्वविद्यालयस्य विधिविभागस्य प्राध्यापिका डाँ जिगीषापूजारीमहोदयाः । विशिष्टातिथिपदं परिसरस्य बौद्धदर्शन तथा पालीविद्याशाखायाः अध्यक्षै : प्रो . अवधेशकुमारचौवेमहोदयै: अलंकृतम् । सिपाईपाड़ा ग्रामस्य सरपञ्चमहोदया : श्रीमतिसुखिनीदेवबर्मामहोदयाः तथा समाजसेविका श्रीमतिदीपालिदेवबर्मा महोदया : अपि अतिथित्वेन उपस्थिताः आसन् । एवञ्च अन्ये अतिथयः अपि कार्यक्रमेऽस्मिन् उपस्थिताः आसन्। परिसरनिदेशका: प्रो. प्रभातकुमारमहापात्रमहाभागाः ऑनलाईन माध्यमेन अध्यक्षपदम् अलंकृतवन्त : । सर्वे एव वक्तारः नारीणाम् अधिकार विषये स्थितिविषये च आलोचितवन्तः । कार्यक्रमेऽस्मिन् परिसरस्य सर्वासाम् अध्यापिकानां कर्मयोगिनीनां च सम्माननं जातम् ।