उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:
डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य व्याकरणविभागेन नवदेहलीस्थ केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहयोगेन १९ फरवरीतः 25 फरवरी पर्यन्तं सप्तदिवसात्मिका राष्ट्रियशास्त्रार्थप्रशिक्षणकार्यशाला आयोजिता आसीत्। समापनसत्रे मुख्यातिथिरूपेण जयपुरस्थ श्रीजगद्गुरुरामानन्दाचार्य राजस्थानसंस्कृतविश्वविद्यालयस्य वेदविभागस्य विभागाध्यक्षचर:, आचार्य: राजेन्द्रप्रसादमिश्रवर्य: उपस्थितः आसीत्। आचार्येण स्ववक्तव्ये उक्तं यत् व्याकरणशास्त्रं मुखरूपेण स्मृतम् अस्ति। व्याकरणस्य ज्ञानस्य अभावे असाधुप्रयोगा: व्यवहारे आयान्ति। अतः व्याकरणस्य अध्ययनम् अनिवार्यरुपेण कर्तव्यम् एव। सम्प्रति महर्षिपाणिनि:, आचार्यभर्तृहरि: इत्यादीनां वैय्याकरणानां परम्परायाः संरक्षणस्य महती आवश्यकता वर्त्तते। मिश्रवर्येण भारतस्य विश्वप्रसिद्धा वाक्यार्थ परम्परायाः रक्षणार्थं छात्रा: प्रेरिता:। कार्यशालायां प्रशिक्षकरूपेण उपस्थितः तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य प्रमुख: प्रो.पंकजव्यासमहोदयेन अवदत् यत् शास्त्राध्ययनपरम्परा प्राचीनकालात् अद्यावधि पर्यन्त प्रचलति अस्ति। सर्वेषु शास्त्रेषु वादविवादव्यवस्था वर्तते। भारतीयज्ञानव्यवस्था एतया परम्परया एव रक्षिता अस्ति । कार्यशालायाः उद्देश्यं प्रतिवेदनं च प्रस्तुवन् संयोजकेन डॉ. अखिलेशकुमारद्विवेदीमहोदयेन उक्तं यत् भर्तृहरिविरचितं वाक्यपदीयस्य साधनसमुद्देशाधा रितायां कार्यशालायां त्रिंशत् छात्रा: शास्त्रप्रशिक्षणं प्राप्तवन्तः। कृतज्ञता कुलसचिवेन प्रो.दिलीपसोनी महोदयेन संचालनं च डॉ. अनुरुद्धकुमारत्रिपाठीवर्येण कृतम्। प्रो.रामसालाहीद्विवेदी, नईदिल्ली, प्रो.प्रदीपकुमार पाण्डेय:,भोपालम्, प्रो.पंकजव्यास:,तिरुपति:,डॉ. लवलेशमिश्र:, दतिया शास्त्रप्रशिक्षणं दत्तवन्तः।