सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक:
डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)
उज्जयिनीस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालस्य वेदविभागेन 24 फरवरी 2025 तमे दिनाङ्के आभासीयमञ्चद्वारा संस्कृतसाहित्ये शिव: इति विषये विशेषव्याख्यानस्य आयोजनं कृतम्। तत्र नवदेहलीस्थ श्यामप्रसादमहिलामहाविद्यालयस्य संस्कृतविभागस्य सहयकाचार्य: डॉ. ऋषिराजपाठकः मुख्यबक्तारुपेण शिवरूपस्य व्याख्यानं कुर्वन् अवदत् यत् भगवान् शिवः ज्ञानदेवः सर्वविद्या-प्रवर्तकः च सः सर्वकला-सम्पन्नः मंगलशक्तिसंयुक्तरूपः अस्ति । महोदयेन महामृत्युञ्जयमन्त्रं व्याख्याय मोक्षप्राप्त्यर्थं च उपाय: अवदत्। कार्यक्रमस्य संरक्षक: माननीय: कुलगुरुः आचार्य: विजयकुमारसीजीमहोदय: लोककल्याणकारी विषयोपरि विशिष्टव्याख्यानस्य आयोजनाय वेदविभागस्य अभिनन्दनं कृतवान् । अध्यक्षीय उद्बोधने वेदविभागप्रमुखेन डॉ. संकल्पमिश्रमहोदयेन श्रुतेः पुराणपर्यन्तं लोकसाहित्ये च भगवतः शिवस्य रूपस्य वर्णनं कृतम्।
अतिथिपरिचय: डॉ. सत्यव्रतपाण्डेयेन, संचालनं डॉ. प्रणवकश्यपेन, आभारं च डॉ. अंकितशाण्डिल्येन निवेदितम् । कार्यक्रमे डॉ. तुलसीदासपरोहा, डॉ. अखिलेशकुमारद्विवेदी अन्ये विद्वांसः , छात्राः, सामाजिकजनाः च सम्मिलिताः अभवन्।