शैवपरम्परायां वास्तुशास्त्रस्य तत्त्वानि गवेषणायाः विषयः- प्रो.काशीनाथ: न्योपाने
डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)
विक्रमोत्सवस्य अन्तर्गतं महाराजविक्रमादित्यशोधपीठम् तथा च वास्तुविभाग: महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:, उज्जयिनी इत्यनयो: संयुक्ताश्रयेण 27 फरवरी 2025 तमेदिनाङ्के पाणिनिसंस्कृत विश्वविद्यालयपरिसरे “शैवपरम्परायां वास्तुशास्त्रस्य अवधारणा” इति विषयमवलम्य द्विदिवसीया अन्ताराष्ट्रियशोधसङ्गोष्ठी आयोजिता। उद्घाटनसमारोहे मुख्यातिथिरूपेण आचार्य: काशीनाथन्योपानेमहोदय:, नेपालसंस्कृतविश्वविद्यालय: काठमाण्डूत: उपस्थितः आसीत्। महोदयेन भगवान् शिवस्य स्वरूपप्रतिपादने उक्तं यत् शिव: पशुपतिः तस्य नैके रूपाः सन्ति । शिवतत्त्वस्य शास्त्रेषु विस्तृतरूपेण चर्चा कृता: वर्तते। नित्यः, शुद्धः, कल्याणकारी, आशुतोष: ,शिवः इति शिवस्य महिमा वर्त्तते। महाराजविक्रमादित्यस्य शासनकालस्य चर्चां कुर्वन् सः अवदत् यत् तस्य नवरत्नानि सम्पूर्णे विश्वे प्रसिद्धानि सन्ति, तेन स्थापितं विक्रमसंवत् भारतेन सह नेपालेदेशेsपि अङ्गीकृतम् अस्ति। सारस्वतातिथिः विक्रमविश्वविद्यालयस्य पूर्वकुलपतिः प्रो.बालकृष्णशर्म महोदय: उक्तवान् यत् भगवान् शिव: अनिष्टपरिहारको वर्तते । तेन धारितानि चिह्नानि वास्तुजन्य दोषाणां शमनार्थं उपयुक्तानि। समराङ्गणसूत्रधारस्य चर्चायां महोदयेन कथितं यत् विना वास्तुज्ञानेन शुभाशुभ लक्षणानां ज्ञानं न भवितुमर्हति। विश्वविद्यालयस्य माननीय: कुलगुरु: प्रो.विजयकुमारसीजी महोदय: भारतीयसंस्कृतौ शैवागमस्य, मूलभूतसिद्धान्तानां चर्चां कुर्वन् अवदत् यत् शिवः एव जगतः मूलभूतचेतनातत्वरूप: बन्धनस्य मुक्तेः च कारणम् । मन्त्रवास्तु, शैववाद:, शिवस्य शाश्वत सत्ता आदि विषये महोदयेन विस्तरेण उद्बोधितम्। विभागसंयोजकेन डॉ.तुलसीदास परोहेण अतिथिपरिचय:, संगोष्ठीसमन्वयकेन डॉ. शुभमशर्मेण भूमिका च प्रस्तुता। कुलसचिवेन प्रो.दिलीपसोनी महोदयेन विक्रमोत्सवस्य भव्यायोजनाय शुभकामना: प्रदत्ता:। कार्यक्रमस्य संचालनं डॉ. विजयकुमारेण कृतम्। कार्यक्रमे डॉ.शैलेन्द्रकुमारशर्मा, प्रो.वासुदेवशर्मा, डॉ.अवधेशश्रोत्रिय:, डॉ.कृष्ण कुमारभार्गव:, प्रो.प्रभाकर पाण्डेय:, डॉ. संकल्पमिश्र: ,नेपाल, म्यांमार, वियतनामादि देशानां विद्वांसः, छात्राः, शोधकर्त्तारः च उपस्थिताः आसन् ।