व्याकरणं सर्वेषु शास्त्रेषु पवित्रतमं सर्वशास्त्रोपकारकं च वर्त्तते–आचार्य: राधाबल्लभत्रिपाठी।
डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य व्याकरणविभागेन नवदेहलीस्थ केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहयोगेन १९ फरवरी तः २५ फरवरी २०२५ दिनाङ्कं यावत् सप्तदिवसात्मिका राष्ट्रियशास्त्रार्थप्रशिक्षणकार्यशाला आयोजिता आसीत्। कार्यशालाया: उद्घाटनं १९ फेब्रुवरी २०२५ तमेदिनाङ्के विश्वविद्यालयपरिसरे अभवत् । आचार्यभर्तृहरिप्रणीतवाक्यपदीयस्य साधनसमुद्देशाधारिताया: कार्यशालायाः उद्घाटनसत्रे मुख्यातिथिरूपेण केंद्रीयसंस्कृत विशवविद्यालयस्य (प्राक्तन् राष्ट्रियसंस्कृतसंस्थानं,नवदेहली) इत्यस्य कुलपतिचरा: प्रसिद्धसाहित्यकारा:, राष्ट्रपतिसम्मनिता: आचार्यराधावल्लभत्रिपाठीवर्या:उपस्थिता: आसन् । आचार्यैः स्ववक्तव्ये भाषाप्रकृतेः तथा च बाह्यजगतोपरि आस्या: प्रभावस्य विषये उक्तं यत् आचार्यभर्तृहरिमते शब्दः शाश्वतः ब्रह्मप्राप्त्यर्थं मुख्यसाधनभूतं च अस्ति। तै: विश्वस्य अनेकेषां दार्शनिकानां पाश्चात्यविद्वान् चाऊंसकी इत्यादीनां मतं प्रकाशयन् कथितम् आचार्यभर्तृहरे: पूर्वं केनापि भाषाविदै: एतादृशं मतं न प्रतिपादितम् । विद्वतवर्यै: सर्वशास्त्राधारं व्याकरणम् इति स्वीकृतम्। उद्घाटनसमारोहस्य अध्यक्षा:, माननीयकुलगुरव: आचार्यविजयकुमारसीजी महोदया: उक्तवन्तः यत् आचार्यभर्तृहरिः महान्त: दार्शनिका: भाषातत्वज्ञा: च आसन्। तेषां वाक्यपदीयग्रन्थः भाषादर्शनत्वेन सम्पूर्णे विश्वे प्रसिद्धः अस्ति । अस्मिन् खण्डत्रयेषु लौकिकमलौकिकं च प्रतीतिः, शब्दः, स्फोटः, स्फुरणं, परिणामः च अत्र विस्तरेण प्राप्यते। विशेषातिथिवर्यै: केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य आचार्यैः डॉ. प्रदीपकुमारपाण्डेयमहोदयै: वाक्यपदीयस्य काण्डत्रयस्य परिचय:, व्याकरणस्य सिद्धान्तानां दर्शनिकं महत्त्वं च प्रकाशितम् । राष्ट्रियसंस्कृतविश्व विद्यालय:, तिरुपतित: सम्प्राप्तै: व्याकरणविभागप्रमुखै: कार्यशालाप्रशिक्षकै: च आचार्य पंकजव्यासमहोदयै: उक्तं यत् भर्तृहरिः भारतीयज्ञानपरम्परायाः प्रवर्तका: सम्पोषका: च आसन्। तै: प्रतिभा प्रमाणरूपेण स्वीकृता: प्रतिभाभेदाः च व्याख्याताः।
प्रस्तावना, अतिथिपरिचय: च कार्यशालासंयोजकै: व्याकरणविभागप्रमुखै: डॉ. अखिलेशकुमारद्विवेदीमहोदयै: प्रस्तुतः। कार्यशालायाः सञ्चालनं सहसंयोजकै: डॉ.दिनेशचौबेवर्यै: आभारं च विभागसंयोजकै: आचार्यतुलसीदासपरौहामहोदयै: प्रस्तुतम् ।कार्यशालायां त्रिंशत् छात्राः शास्त्रप्रशिक्षणं प्राप्तवन्तः।
जयतु संस्कृतम् 🙏🏿🙏🏿🙏🏿