क्षितिज त्यागी-ः रतेन संयुक्तराष्ट्रपरिषदि पाकिस्तानस्य कृता कट्वालोचना
हिमसंस्कृतवार्ताः। संयुक्त राष्ट्र-मञ्चस्य मानवाधिकार परिषदः पञ्च पञ्चाशत्तमस्य मत्रस्य सप्तमे समुपवेशने भारतेन पाकिस्तानस्य भृशं कट्वालोचना विहिता। प्रोक्तं च यत् पाकिस्तानम् अन्ताराष्ट्रिय-सहयोगे निर्भरः एकः असफलः देशः अस्ति। जिनेवा नगरे भारतस्य स्थायी मिशन सदस्यः क्षितिजः त्यागी पाकिस्तानम्य नेतृजनेषु आरोपान् आरोपितवान् यत् ते स्वीय-सैन्य-आतंकवादी-परिसरेभ्यः मृषापवादानेव प्रसारयन्ति अमुना साम्प्रतिकेषु वर्षेषु क्षेत्रस्य उल्लेखनीयानां राजनीतिक-सामाजिक-आर्थिक प्रगतीनाम् उदाहरण-पुरस्सरं प्रतिपादितं यत् जम्मू-कश्मीरं लद्दाख इति ललाटाक्ष-क्षेत्रञ्च सर्वदा भारतस्यैव अभिन्नाङ्ङ्गत्वेन वर्तिष्यन्ते। त्यागी बर्येण ओ आई सी इति इस्लामिक सहयोग-संघटनस्य मुखपत्र-रूपेण उपयोगार्थ पाकिस्तानं भृशं भार्मितम्। प्रोदितं च यत् एतत् नितान्तमेव दुर्भाग्यपूर्णमस्ति यत् परिषदः समयः एकेन एतन्निभेन देशेन विनष्टीकृतः यः खलु अस्थैर्येण विवर्धते, अन्ताराष्ट्रिय-सहाय्येन च जीवति। सहैव असौ न्यगदत् यत् भारतं लोकतन्त्रस्य, प्रगतेः प्रजानां सम्मानस्य च सुनिश्चितीकरणे केन्द्रितमस्ति। पाकिस्तानेन भारतात् एतानि मूल्यानि सन्ति शिक्षितव्यानि।
क्षितिज त्यागी-ः रतेन संयुक्तराष्ट्रपरिषदि पाकिस्तानस्य कृता कट्वालोचना
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
