प्रयागराजमहाकुम्भेन नूतनाभिः उपलब्धिभिः सह अनेके गिनीजविश्वविक्रमाः स्वनाम्ना पञ्जीकृताः
हिमसंस्कृतवार्ताः। ४५ दिवसीयेन प्रयागराजमहाकुम्भेन नूतनाभिः उपलब्धिभिः सह अनेके गिनीजविश्वविक्रमाः स्वनाम्ना पञ्जीकृताः, येषां प्रमाणपत्राणि गुरुवासरे उतरप्रदेशसर्वकाराय समर्पितानि। अस्मिन् अवसरे प्रसन्नतां प्रकटयन् उत्तरप्रदेशस्य मुख्यमन्त्रीकार्यालयेन स्वस्य एक्स हैण्डल् इत्यत्र चित्राणि सार्वजनिकानि कृतानि, येषु मुख्यमन्त्री योगी, उपमुख्यमन्त्रीकेशवप्रसादमौर्यः, ब्रजेशपाठकः च हस्ते गिनीज वर्ल्ड रिकार्ड प्रमाणपत्रं धारयन्तः दृश्यन्ते। सीएमओ इत्यनेन इन्स्टाग्रामे लिखितं यत् पीएम नरेन्द्रमोदी इत्यस्य सफलमार्गदर्शने मुख्यमन्त्री योगी इत्यस्य नेतृत्वे च महाकुम्भ-२०२५ इत्यस्य भव्यसङ्गठनेन देशः विश्वश्च विस्मितः अस्ति। भारतस्य सांस्कृतिकवैविध्यस्य एकतायाः च गौरवपूर्णकथा विश्वमञ्चे प्रतिध्वनितम् अस्ति।
स्वच्छताकर्मकरेभ्यः अतिरिक्तं धनलाभं प्रदास्यति उत्तरप्रदेशसर्वकारः
महाकुम्भस्य साफल्यान्तरम् उत्तरप्रदेशसर्वकारः स्वच्छताकर्मकरेभ्यः आर्थिकं धनलाभं प्रदास्यति, कर्मकरेभ्यः अतिरिक्तं दशसहस्ररूप्यकाणां धनलाभः मिलिष्यति किञ्च येभ्यः अष्टतः दशसहस्रं प्रतिमासं मिलति स्म, तेभ्यः अधुना षोडशसहस्रमासिकाय कर्तुं योजना अस्ति। ध्यातव्यं यत् मुख्यमन्त्रिणा स्वच्छता कर्मकरेभ्यः भूमौ उपविश्य भोजनमपि कृतम्, तथा सर्वेषां स्वच्छताकर्मकराणां धन्यवादः ख्यापितः।
महाकुम्भः एकतायाः महायज्ञः इति प्रवदन् महाकुम्भं प्राशंसत् प्रधानमन्त्री
हिमसंस्कृतवार्ताः। महाकुम्भः एकतायाः महायजन् इति प्रवदन् महाकुम्भस्य प्रशंसां कुर्वन् च, प्रधानमन्त्री नरेन्द्रमोदी अभिव्यक्तवान् यत् भारते स्वस्य न्यासस्योपरि गर्व करोति, नूतनया ऊर्जया सह अग्रे गच्छति इति। प्रधानमन्त्री अवदत् यत् महाकुम्भस्य सफलता आधुनिकप्रबन्धनव्यवसायिकानां, नियोजनस्य, नीतिविशेषज्ञानां च कृते अध्ययनस्य विषयो विद्यते इति। असौ दृढतया उक्तवान् यत् संसारे कस्मिन् अपि देशे एतादृशस्य समानान्तरस्य उदाहरणं नास्ति तथा च चतुश्चत्वारिंशदधिकैकशतवर्षाणाम् अनन्तरं, सन्ताः पुनःदर्शनं दास्यन्ति। श्रीमोदी विकसितभारतस्य कृते नूतनम् सन्देशम् अददुः सामाजिकान्तार्जालीयालेखे एतान् विचारान् अलिखत्। प्रयागराजनगरे तिसृणां नदीनां सङ्गमतटे कोटिशः जनाः कथं समागच्छन् इति सकलं हि विश्वम् आश्वर्येण अपश्यत् इत्यपि श्रीमोदी कथितवान् ।
प्रयागराजमहाकुम्भेन नूतनाभिः उपलब्धिभिः सह अनेके गिनीजविश्वविक्रमाः स्वनाम्ना पञ्जीकृताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
