जयपुरपरिसरे पी.जी. डिप्लोमापाठ्यक्रम-प्रथमव्याख्यानमालाप्रायोगिकञ्च प्रारब्धम्
वार्ताहरः- डॉ.सुधाकरकुमारपाण्डेयः
केन्द्रीयसंस्कृतविश्वविद्यालय:, जयपुरपरिसर:, जयपुरम्
वेदपौरोहित्यकर्मकाण्डविद्याशाखया अद्य 25/02/2025 सायं 5 वादने “कर्मकाण्ड-डिप्लोमा-पाठ्यक्रमस्य मुख्यांशानां व्याख्यानमाला” इति प्रत्यक्ष-अप्रत्यक्षरूपेण कार्यक्रम: समायोजित: | कार्यक्रमोऽयंट “संस्कारविषयमाश्रित्य” कर्मकाण्डजिज्ञासुनां कृते महान् ज्ञानप्रद आसीत् | अस्य कार्यक्रमस्य अध्यक्षा: केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य निदेशका: प्रो. सुदेशकुमारशर्माण: छात्रान् समुद्दिश्य अवोचन् यत् संस्काराणां न केवलं पठन-पाठनं स्यादपितु तेषामद्यतने प्रयोग: अत्यावश्यक: | अस्मिन् कार्यक्रमे मुख्यवक्त्रीरूपेण समुपस्थिता आसन् जयपुरपरिसरस्य पूर्वनिदेशिका: प्रो.भगवती सुदेशशर्माण:, ता: संस्कारविषयमाश्रित्य संस्काराणां भेदा:, समाजे अद्यतने संस्काराणामुपयोगिता कथं तेषां समये समये प्रयोग: कर्तव्य इति सर्वमवोचन् | संस्कारा: शरीरस्य सुरभिवद्वर्तन्ते | सुरभिं विना यथा पुष्पं न प्रयुज्यते तथैव संस्कारं विना शरीरं न शुद्धं भवति | कार्यक्रमेस्मिन् आशीर्वादं प्रदातुं समुपस्थिता: न आसन् वेदविद्याशाखाध्यक्षा: प्रो.मनोजमिश्रमहोदया: | आशीर्वादभाषणे ते अवादिषु: यच्छात्रा: कथं कर्मकाण्डपथि वर्तेरन् कथं कर्मकाण्डमाध्येन जनानां कल्याणं कुर्यु: इति | अस्य कार्यक्रमस्य प्रास्तविकं स्वागतं डा.सुधाकरकुमारपाण्डेयमहोदया: कृतवन्त:, सञ्चालनं श्रीरजनीशकुमारपाण्डेयमहोदया: कृतवन्त: अन्ते धन्यवादज्ञापनं सुश्रीसाधनाआर्या कृतवती | कार्यक्रमस्यास्य शान्तिमन्त्रेण समापनम् अभवत् ||
बहुत सुंदर बहुत अच्छा उत्तम शोभानम,,स🙏👍🌹👌🌹👍🙏
अतिउत्तमम्
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
अतिउत्तमम्🙏🙏