ज्यौतिषस्य त्रय: स्कन्धा:-
विषयवस्तु अधिकृत्य ज्यौतिषस्य त्रय: विभागा: सन्ति- सिद्धान्त:, संहिता, होरा च।
त्रुटित: आरभ्य प्रलयं यावत् कालखण्डा:, सौरादीनि कालमानानि, ग्रहगतय:, ग्रहयुति:, ग्रहनक्षत्रयुति:, ग्रहाणामुदयास्ता:, चन्द्रसूर्यग्रहणानि, कृतस्य ग्रहगणितस्य परीक्षणार्थं च यन्त्रनिर्मिति: इत्यादय: सिद्धान्तस्कन्धविषया:।
एतासां खगोलीयघटनानां जनेषु य: शुभाशुभादिप्रभाव: तस्य चिन्तनं संहिताशाखायां भवति। उल्कापातभूकम्पादय: उत्पाता: तेषां प्रशमनं च, जलान्वेषणम्, तिथिनक्षत्रादीनां शुभाशुभत्वम्, यात्राविचार:, संस्काराणामनुष्ठानानां च कृते योग्य: काल:, वास्तुविद्या,रत्नपरीक्षा इत्यादय: बहव: विषया: संहितायाम् अन्तर्भवन्ति। मुहूर्तविषयोपि संहिताविषय: एव। उक्तं च– काल: शुभक्रियायोग्यो मुहूर्त: इति कीर्तित:।
ग्हनक्षत्राणां स्थितिवशात् व्यक्तौ तस्य शुभाशुभपरिणाम: होरानामकस्य स्कन्धस्य विषय:। तत्र पुन: द्विविध: विभाग:– जातकम् इति विभागे गर्भाधानकालस्य अथवा जन्मसमयस्य ग्रहनक्षत्रादिस्थित्यनुसारं व्यक्तिसम्बद्धं शुभाशुभफलं चिन्त्यते। प्रश्नज्यौतिषे दैवज्ञम् उपसृत्य: जन: यदि प्रश्नं पृच्छति तर्हि प्रश्नकालस्य ग्रहनक्षत्रादिस्थितिम् अनुसृत्य फलविचारो भवति।
वेदाङ्गज्यौतिषात् अनन्तरं सिद्धान्तस्कन्धे ब्राह्म:, सौर:, वासिष्ठ:, लोमश: पौलिश: एते पञ्च प्रमुखसिद्धान्ता: उत्पन्ना:। तथापि तेषां ग्रन्था: सम्प्रति नोपलभ्यन्ते। संहितासिद्धान्तौ प्राचीनौ स्कन्धौ होरा तु अर्वाचीन:। एतेषां त्रयाणामपि सद्य: उपलब्धा: केचन महत्त्वपूर्णग्रन्था–
#सिद्धान्तस्कन्ध:-
१) आर्यभटीयम्- आर्यभट: कुसुमपुरस्य निवासी आसीत्। तस्य काल: ख्रैस्तं पञ्चमं शतकम्। ग्रन्थस्यैतस्य त्रयो भागा: विद्यन्ते– गणितम्, कालक्रिया तथा गोल:। यथा नौकायां स्थित: मनुष्य: नदीतटस्थितान् वृक्षादीन् नौकाया: विलोममार्गेण गच्छन्त: पश्यति तथापि नक्षत्राणि अचलान्यपि भुव: गत्या पश्चिमाभिमुखं यान्तीव दृश्यन्ते इति स: वदति। आर्यभट्टीयं सिद्धान्तशास्त्रस्य उपलभ्यमान: प्राचीनतम: ग्रन्थ:।
२) पञ्चसिद्धान्तिका–
अवन्तिनगरवासी वराहमिहिर: अस्य लेखक:। स: आर्यभटस्यैव समकालीन:। ब्राह्मादय: ये पञ्च सिद्धान्ता: तेषु केचन वराहमिहिरस्य काले एव नष्टप्राया: आसन्। अवशिष्टेषु स्पष्टता नासीत्। अत: एतेषां सिद्धान्तानां मुख्यविषयान् सङ्गृह्य ग्रन्थमिदं निर्मितवान्।
३) सूर्यसिद्धान्त:-
एतस्य ग्रन्थस्य कर्ता अज्ञात:, तथापि सूर्यात् मयासुरेण एतत् ज्ञानं प्राप्तमिति उल्लेखात् एष: आर्षग्रन्थ: स्यात् इति भाति। तथापि अभ्यासका: एनं वराहमिहिरादपि अर्वाचीनं मन्यन्ते।
चन्द्र: मेघवत् सूर्यमाच्छादयति तेन सूर्यग्रहणं भवति, चन्द्र: यदा पृथिवीच्छायायां प्रविशति तदा चन्द्रग्रहणं भवति इत्यादय: महत्त्वपूर्णा: अंशा: ग्रन्थेस्मिन् विवेचिता:।
४) सिद्धान्तशिरोमणि:-
एतस्य कर्ता भास्कराचार्य:। ख्रैस्ते ११४९ तमे वर्षे ग्रन्थमेनं लिखितवानिति तेनैव कृतात् शकोल्लेखात् निश्चितं भवति। ब्रह्मदत्तस्य ब्राह्मस्फुटसिद्धान्त: इत्येनं ग्रन्थम् आधारीकृत्य अहम् एनं ग्रन्थं रचितवान् इति स: कथयति। सिद्धान्तज्यौतिषविषयका: सर्वेऽपि महत्त्वपूर्णा: अंशा: ग्रन्थेऽस्मिन् सम्यक् प्रतिपादिता: सन्तीत्यत: एतस्य ग्रन्थस्य अध्ययनं विना सिद्धान्तस्कन्दस्य ज्ञानं दुष्करम्।
संहितास्कन्ध:-
१) बृहत्संहिता–
वराहमिहिरस्य एषा अन्तिमा कृति:। ग्रन्थेऽस्मिन् संहितान्तर्गता: सर्वे महत्त्वपूर्णविषया: हृद्यशैल्या निरूपिता: सन्ति। ग्रन्थेऽस्मिन् १६० अध्याया: सन्ति। तथापि संहितान्तर्गतयो: यात्रा तथा मुहूर्त: एतयो: विषययो: विवेचनम् अत्र नास्ति। ग्रन्थेऽस्मिन् पराशर- गर्ग- भृगु- मयादीनां तेन कृतात् उल्लेखात् ज्ञायते यत् संहिताशास्त्रस्य बहव: ग्रन्था: पूर्वमासन् तथापि सद्य: ते नोपलब्धा एव। अग्रेऽपि केवलं मुहूर्तविषयकाणामेव ग्रन्थानां विस्तर: जात:। अत: संहितास्कन्धस्य ज्ञानाय बृहत्संहिताया: महत्त्वं सर्वोपरि अस्ति।
२) मुहूर्तचिन्तामणि:- मुहूर्तग्रन्थेषु एष: सर्वोत्तम: ग्रन्थ: रामनाम्ना दैवज्ञेन षोडशशतके निर्मित:।
#होरास्कन्ध:-
१) बृहत्पाराशरहोराशास्त्रम्–
एष: पाराशरमैत्रेयसंवादरूप: ग्रन्थ: पश्चाद्भाविना केनचित् दैवज्ञेन सङ्गृह्य लिखित:। अस्य उपसंहाराध्याये होराशास्त्रस्य ब्रह्मा नारद: शौनक: पराशर: मैत्रेय: एवं परम्परा उक्ता अस्ति। ग्रन्थेस्मिन् ९८ अध्याया: सन्ति।
२) बृहज्जातकम्– एतस्य कर्ता वराहमिहिर: एव। एतस्मिन् पञ्चविंशतौ अध्यायेषु होरासम्बद्धा: सर्वेपि विषया: स्पष्टतया निरूपिता:।
–श्री अभिजित् तोडकर
9145908156