दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम्
नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता तदीय-मन्त्रिमंडलस्य सदस्याः प्रवेश-साहिब सिंहः, आशीष-सूदः, मनजिंदर सिंह-सिरसा, कपिलमिश्रः, रवींद्र-इंद्राज-सिंहः, पंकज-सिंहश्च विधायक-पदस्य शपथवचनं स्वीकृतवन्तः । प्रोटेस स्पीकर पदारूढः अरविंदर सिंह लवली अन्येभ्यः शपथ वचनं कारितवान्। ध्येयमस्ति यद् अन्य-नवनिर्वाचितैः विधायकैश्चापि शपथ-वचनं स्वीकृतम्। रोहिणी-तः विधायकः विजेंद्र गुप्ता दिल्ली विधानसभायाः अध्यक्षः प्रचितः अस्ति। उपराज्यपालः वी.के. सक्सेना-वर्यः अद्य सदनं संबोधयिष्यति । विगत-सर्वकारस्य कार्यजातेषु अपि सी.ए.जी. इत्यस्य विवरणम् अपि तद्दिने एव सदने उपस्थापयिष्यते त्रि-दिवसीय-सत्रमिदं फरवरी-सप्तविंशति यावत् चलिष्यति ।। सद्य एव सम्पन्नेषु विधानसभा निर्वाचनेषु भाजपा-दलेन अष्ट चत्वारिंशत् आसनानि अधिगम्य ऐतिहासिकः विजयः प्राप्तः आसीत्, अपरत्र च आम आदमी पार्टीति दलेन द्वाविंशतिः आसनानि एव प्राप्तानि आसन्। पूर्वमुख्यमन्त्री कालकाजी क्षेत्रस्य आप दलस्य विधानसभा सदस्या आतिशी नेताविपक्षः भविष्यति।
दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
