भारतीयमूलस्य काशपटेलः एफबीआई-निदेशकः कार्यभारं स्वीकृत्य सचेतना दत्तवान्
भारतीयमूलस्य अमेरिकनः काशपटेलः संघीय अन्वेषणब्यूरो (FBI) इत्यस्य निदेशकः अभवत् । अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य निकटसहायकस्य पटेलस्य नियुक्तिः गुरुवासरे सिनेट्-समित्या अनुमोदितः। सः ट्रम्पस्य कट्टरः मित्रपक्षः अपि इति कथ्यते । ४४ वर्षीयस्य पटेलस्य नियुक्तेः विषये सिनेट्-समित्याम् निकटमतदानं जातम् । तस्य पक्षे ५१ मतानि, तस्य विरुद्धं ४९ मतदानानि कृतम् । रिपब्लिकन्-दलस्य सुसान कोलिन्स्, लिसा मुर्कोव्स्की च ४७ डेमोक्रेट्-दलेन सह पटेलस्य नियुक्तेः विरुद्धं मतदानं कृतवन्तौ । विपक्षस्य डेमोक्रेटिकपक्षस्य सांसदाः आशङ्कयन्ति यत् पदं स्वीकृत्य काशपटेलः ट्रम्पस्य आदेशं अनुसृत्य स्वविरोधिनां लक्ष्यं करिष्यति। पदं स्वीकृत्य काशः अपि स्वस्य कठोरं वृत्तं दर्शितवान्, ये अमेरिकीयहितस्य हानिं कर्तुम् इच्छन्ति ते किमपि मूल्येन न मुक्ताः भविष्यन्ति इति च उक्तवान्।
भारतीयमूलस्य काशपटेलः एफबीआई-निदेशकः कार्यभारं स्वीकृत्य सचेतना दत्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
