संस्कृतभाषां यान्त्रिकशिक्षणेन सह संयोजयितुं नूतनः उपायः – प्राचार्यः
वार्ताहर: – जगदीश डाभी
केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहल्याः दरभंगा-इञ्जिनीयरिङ्ग-महाविद्यालयस्य च मध्ये महत्त्वपूर्णज्ञापनपत्रे हस्ताक्षरितम्। यस्य मुख्योद्देश्यं संस्कृतभाषाध्ययनस्य च प्रवर्धनम्। अनयोः द्वयोः संस्थयोः शैक्षणिकसहकार्ये, संस्कृतशिक्षायाः प्रवर्धने च महत्त्वपूर्णं सोपानं सिद्धं भविष्यति । अनेन ज्ञापनपत्राधारेण परिसरे ‘संस्कृतशिक्षणकेन्द्रम्’ स्थापितं येन छात्राः, शिक्षकाः, सामान्यजनाः च संस्कृतभाषाशिक्षणस्य अवसरं प्राप्स्यन्ति। दरभंगा-अभियांत्रिक-महाविद्यालयस्य प्राचार्यः डॉ. संदीपतिवारी उक्तवान् यत् संस्कृतभाषायाः अध्ययनं तान्त्रिकशिक्षणेन सह सम्बद्धं कर्तुम् एषः प्रयासः अस्माकं छात्राणां कृते नूतनदृष्टिकोणं प्रदास्यति। तान्त्रिकशिक्षणस्याध्ययनं संस्कृतभाषया भवति चेत् छात्राः नूतनदृष्टिं प्राप्स्यन्ति।