हिमाचलप्रदेशे एकः जलबन्धः यः मृदया निर्मितः न तु वज्रचूर्णेन, २४३१० परिवाराः निराश्रिता: अभवन्
हिमसंस्कृतवार्ता:- काङ्गड़ा। हिमाचलप्रदेशस्य काङ्गड़ामण्डले ब्यासनद्याः उपरि पौंगजलबन्धस्य निर्माणस्य प्रस्तावः १९२६ तमे वर्षे कृतः। सर्वा: औपचारिकता: सम्पन्नं कृत्वा भौगोलिकस्थितीनां परीक्षणं कृत्वा १९६१ तमे वर्षे अस्य कार्यं पूर्णतया आरब्धम्। अत्र शतशः श्रमिकाः कार्यरताः आसन्, ये द्वयोः चक्रयो: कार्यं कुर्वन्ति स्म। १३ वर्षाणां परिश्रमस्य अनन्तरं १९७४ तमे वर्षे अस्य कार्यं सम्पन्नम् अभवत्, तस्मिन् एव वर्षे तस्य उद्घाटनम् अपि अभवत्। एषः जलबन्धः मानवनिर्मितः अस्ति। जलबन्धनिर्माणे वज्रचूर्णं न अपितु मृत्तिकायाः उपयोगः कृतः। अस्य देशस्य सर्वोच्चजलबन्धः इति भेदः आसीत्, समुद्रतलात् १४३० पादपर्यन्तं ऊर्ध्वता च अस्ति। अस्य जलबन्धस्य ऊर्ध्वता ४३६ पाददीर्घता च ६४०१ पादः अस्ति। अस्य विस्तारः ४५ पादः, आधारे तु विस्तारः २००१ पादः वर्त्तते।
३ कोटि ५५ लक्ष घनमीटर जलस्य संग्रहणक्षमता
पौंग-जलबन्धे ३५.५ मिलियन घनमीटर् जलस्य संग्रहणस्य क्षमता अस्ति। अस्य षट् निर्गमद्वाराणि सन्ति येषां निर्गमक्षमता प्रतिसेकेण्ड १२,३७५ घनमीटर् अस्ति। अस्मिन् पञ्च कन्दरा: निर्मिताः सन्ति, येषु तिस्र: कन्दरा: ६ विद्युत्गृहानां यन्त्रेभ्यः जलं प्रयच्छन्ति, कन्दराद्वयं तु सिञ्चनार्थं जलं प्रयच्छति पौंग-जलबन्धे षट् विद्युत्संस्थानानि सन्ति, प्रत्येकस्य संयंत्रस्य क्षमता ६६ मेगावाट, तेषां कुलक्षमता ३९६ मेगावाट् च अस्ति। अयं जलाशयः ६०६१० एकड़ेषु विस्तृतः अस्ति, सरोवरक्षेत्रं ३८७०० एकड़ेषु च अस्ति। पञ्जाब- राजस्थानयोः कृते पोङ्ग-जलबन्धद्वारा जलं प्रदत्तं भवति। हिमाचलस्य अतिरिक्तं पञ्जाबदेशाय अपि विद्युत्प्रदानं भवति। पञ्जाबः राजस्थानम् च सिञ्चनार्थं पौंग-जलबन्धस्य जलस्य उपरि आश्रिताः सन्ति।
पौंग-जलबन्धस्य निर्माणेन २४३१० परिवाराः विस्थापिताः अभवन्
पोङ्गजलबन्धस्य निर्माणसमये २४३१० परिवाराः विस्थापिताः आसन्। तेषु १६१०० कुटुम्बाः भूस्वामिनः आसन्, अन्ये तु भूमिहीनाः आसन्। पञ्जाब-राजस्थानयोः कृते स्थानं कल्पयितुं मिनीपञ्जाब इति नाम्ना प्रसिद्धं हल्दूनक्षेत्रं नष्टम् अस्ति। अस्मिन् प्रदेशे लवणात् परं सर्वं क्षेत्रेषु उत्पाद्यते स्म। कूपजलेन भूमिः सिञ्चिता आसीत्। जलस्य कृते कूपाः निर्मिताः आसन्, वृद्धैः आसनार्थं स्थानानि निर्मितानि आसीत्। अस्मिन् क्षेत्रे वाष्प-इञ्जन-रेलयानानि गच्छन्ति स्म, तत्र नूर-रेलस्थानकं च आसीत्। अग्रे कुड्डासेतुः अपि ब्यासनद्यां निर्मितः, जलबन्धस्य निर्माणानन्तरं एष: रेलमार्गः ज्वालीतः नगरोटासूरियां प्रति प्रेषित:।