Hamirpur News: सुजानपुर मस्जिदस्य समीपे महाराणा प्रतापस्य प्रतिमा स्थापिता भविष्यति
हिमसंस्कृतवार्ता:- हमीरपुरम्। सुजानपुरनगरपरिषद: चतुर्थे क्षेत्रे डोली मस्जिदस्य समीपे निर्धारितस्थाने महाराणा प्रतापस्य प्रतिमा स्थापिता भविष्यति। अत्र उद्यानस्य निर्माणमपि भविष्यति। तथापि अत्र आगमनस्य समस्या नास्ति इति सुनिश्चितं भविष्यति। बुधवासरे नगरपरिषदः सुजानपुरस्य सभायां एषः निर्णयः कृतः। अस्यां गोष्ठ्यां नगरपरिषद: अध्यक्षा सुजानपुरम् शकुंतला देवी, उपाध्यक्ष: मनीष गुप्ता व कार्यकारी- अधिकारी अजमेरठाकुर: अन्ये सर्वे पार्षदा: च उपस्थिता: अभवन्। निर्धारितस्थाने प्रतिमास्थापनस्य, उद्यानस्य निर्माणस्य च निर्णयः सभायां समर्थितः।
विगतदिवसेषु एव मुस्लिमसमुदायस्य जनाः अत्र प्रतिमास्थापनस्य विरोधं कृतवन्तः आसन्। अस्मिन् सन्दर्भे एते जनाः उपायुक्तं हमीरपुरं मिलितवन्तः आसन्। तदनन्तरं सुजानपुरप्रशासनाय अस्मिन् विषये अधिका: निर्देशा: दत्ता:। एतस्मिन् समये विश्वहिन्दूपरिषदः स्थानीयजनाः च नियतस्थाने उद्याननिर्माणं प्रतिमास्थापनं च कर्तुं याचनां उत्थापितवन्तः आसन्। वीएचपी तथा स्थानीयजनानाम् तर्कः अस्ति यत् एतत् निर्माणं नगरपरिषदः, सर्वकारीयभूमिषु च क्रियते, अतः समुदायविशेषस्य जनानां विरोधः न्याय्यः नास्ति। तत्सङ्गमे नगरपरिषद: सुजानपुरस्य सभायां वार्डसंख्या २ इत्यस्य ऐतिहासिकं नौण इत्यस्य सौन्दर्यं कृत्वा अत्र प्रतिमाः स्थापिताः भविष्यन्ति इति अपि निर्णयः कृतः अस्ति।