Himachal News: विक्रमादित्यसिंहः रवनीतसिंहबिट्टू इत्यस्य भ्रमणसमये उक्तवान् यत् सम्पूर्णसूचनाः सङ्गृह्य एव वक्तव्यम्
हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः रेलराज्यमन्त्री रवनीतसिंहबिट्टु इत्यस्य अधुनैव कृतस्य भ्रमणस्य प्रतिक्रियाम् अददत्। विक्रमादित्यसिंहः अवदत् यत् राज्ये केन्द्रीयमन्त्रिणां स्वागतं भवति, परन्तु ते अत्र आगत्य मृषावादं कुर्वन्ति इति वयं न अपेक्षामहे। सः अधुना एव मन्त्री अभवत्, तस्य मन्त्रालयस्य विषये सम्पूर्णं ज्ञानं न स्यात्। सः यस्य ११,८०६ कोटिरूप्यकाणां (बजटविनियोगस्य) चर्चां करोति तस्य ‘गुलाबी’ पुस्तके बजटविनियोगस्य कोऽपि उल्लेखः न प्राप्यते। अहं रवनीतसिंह बिट्टु इत्यस्मै वक्तुमिच्छामि यत् तेन सम्पूर्णसूचनाः सङ्गृह्य एव वक्तव्यम्, असमीचीनं वक्तव्यं न दातव्यम्।