रेखागुप्ता नवदेहल्याः नूतना मुख्यमन्त्री भविष्यति
नवदिल्ली – शालीमारस्य विधायिका रेखागुप्ता नवदेहल्याः नूतना मुख्यमन्त्री भविष्यति। गतदशदिनानां दुविधायाः अनन्तरं भारतीयजनतापक्षेण अन्ततः दिल्लीनगरस्य मुख्यमन्त्री घोषिता। गतसायंकाले अत्र आयोजितायां विधायिकादलस्य सभायां दिल्लीसदरविधायकौ प्रवेशवर्माविजेन्द्रगुप्तौ च तस्य नाम प्रस्तावितवन्तौ। रेखा गुप्ता राष्ट्रीयमहिलामोर्चायाः उपाध्यक्षा अपि अस्ति । निर्वाचने ७० आसनानि युक्तायां दिल्लीविधानसभायां भाजपायाः ४८ आसनानि, आम आदमीपक्षस्य २२ आसनानि च प्राप्तानि। काङ्ग्रेसस्य एकम् आसनम् अपि न प्राप्तम् ।
रेखागुप्ता मूलतः हरियाणाप्रदेशस्य जिन्दमण्डलस्य नन्दगढग्रामस्य निवासी अस्ति । पितुः जयभगवानस्य दिल्लीनगरे कार्यं प्राप्तस्य अनन्तरं सम्पूर्णं परिवारं दिल्लीनगरम् आगतं । रेखा गुप्ता विद्यालयात् स्नातकपर्यन्तं दिल्लीनगरे एव अध्ययनं कृतवती । १९९८ तमे वर्षे सा मनीषगुप्तेन सह विवाहम् अकरोत्, यः स्पेयर पार्ट्स् इत्यस्य व्यापारं चालयति ।
रेखागुप्ता नवदेहल्याः नूतना मुख्यमन्त्री भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
