KKSU – अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार:
हिमसंस्कृतवार्ता: ।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य छात्राः राष्ट्रियस्तरस्य अखिलभारतीयरूपकमहोत्सवे उल्लेखनीयं प्रदर्शनं कृतवन्तः। अखिलभारतीयरूपकमहोत्सवस्य आयोजनं केन्द्रीयसंस्कृतविश्वविद्यालयेन, भोपालेन फेब्रुवरी-मासस्य ११ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं कृतम् । अस्मिन् उत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य छात्रैः ‘विकसतु एषा कालिका’ इति संस्कृतनाटकं प्रस्तुतम् । डॉ. लीना रस्तोगी इत्यनया लिखितस्य आधुनिकविषयाधारितस्य अस्य नाटकस्य निर्देशनं संस्कृतभाषासाहित्यविभागस्य प्रमुखः प्रभारी डीन् च प्राध्यापकपरागजोशी तथा सहायकाचार्या श्रीवरदा मालगे इत्येताभ्यां कृतम् अस्ति । मार्गदर्शकरूपेण प्रो. नीता शर्मा दलेन सह उपस्थिता आसीत्।
न केवलं तत्र उपस्थिताः प्रेक्षकाः अस्य नाटकस्य नाट्य-नवीनीकरणस्य प्रशंसाम् अकुर्वन्, अपितु समीक्षकाः अपि नाटकस्य प्रशंसाम् कृतवन्त: । अन्तिमप्रतियोगितायां “विकसतु एषा कालिका” नाटकं १९ संस्कृतनाटकेषु विजयी उद्भूतः, उत्तमकथा, अभिनयः, निर्देशनं, मञ्चनं च सहितं सर्वेषु स्तरेषु उत्तमप्रस्तुतिं कृत्वा राष्ट्रियस्तरस्य तृतीयपुरस्कारं प्राप्तम् । नाटक-चमू प्रमाणपत्रं, स्मृतिचिन्हं, २०००० रुप्यकाणां साक्षात् पुरस्कारेण सम्मानिता।
अस्य समूहस्य सर्वेषां कृते कुलपति प्रो. हरेराम त्रिपाठी, कुलसचिव: डॉ. देवानंद शुक्ल, प्रभारी डीन प्रो. पराग जोशी एवं सर्वे: सदस्या: शुभकामना: अयच्छन्।
कुलपति प्रो. हरेराम: त्रिपाठी सम्पूर्णनाटकदलेन सह विशेषवार्तालापं कृतवान् । विश्वविद्यालये एतावन्तः प्रतिभाशालिनः प्राध्यापकाः छात्राः च सन्ति, तेषां प्रदर्शनं च राष्ट्रियस्तरेन स्वीकृतम् अस्ति । अस्माकं कृते एषः अवश्यमेव गौरवस्य विषयः अस्ति। छात्राः विविधविज्ञानकलासु प्रवीणतां प्राप्नुयुः, सर्वेषु स्तरेषु स्पर्धासु भागं गृह्णीयुः। विश्वविद्यालयः सर्वविधं साहाय्यं अवश्यं करिष्यति।