HPCM – मुख्यमंत्री सुक्खुः मार्गसुरक्षायै २७ पुलिसद्विचक्रिका: हरित्ध्वजं प्रदर्श्य प्रेषितवान्
हिमसंस्कृतवार्ता:- शिमला ।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ओक-ओवरतः २७ पुलिसद्विचक्रिका: हरित्ध्वजं प्रदर्श्य प्रेषितवान्। एतेषु १४ द्विचक्रिका: काङ्गड़ाजिलापुलिसाय, १३ मण्डीजिलापुलिसाय च दीयन्ते इति सः अवदत्। एतस्य अतिरिक्तं शीघ्रमेव शिमला, नूरपुरं, मण्डी, काङ्गड़ापुलिसजिलेषु उद्धारकार्याणां कृते ४२ चतुश्चक्रीयवाहनानि, १४ इन्टरसेप्टरवाहनानि, १० उद्धारवाहनानि च उपलभ्यन्ते। एतेषां चतुर्णां पुलिसजिलानां कृते ३३७३ मार्गसुरक्षासाधनानाम् क्रयणार्थं ९० कोटिरूप्यकाणां बजटं विनियोजितम् अस्ति।
एतावता ५.७१ कोटिरूप्यकाणां व्ययेन पुलिसविभागाय १२०० तः अधिकानि उपकरणानि प्रदत्तानि सन्ति। शिमलानगरे एकीकृतमार्गसुरक्षाप्रवर्तनव्यवस्थां स्थापयितुं प्रायः ६० कोटिरूप्यकाणि विनियोजितानि सन्ति। शिमला, काङ्गड़ा, मण्डी च जिल्हेषु ४५० तः अधिकैः कृत्रिमगुप्तचर- आधारित- निगरानीकैमरायन्त्रै: सह एषा प्रणाली सम्बद्धा भविष्यति, येन राज्ये उत्तमतया सुचारुतया च यातायात-नियमानाम् अङ्कीयरूपेण निरीक्षणं कर्तुं पुलिसैः समर्था भविष्यति। एतदतिरिक्तं ३४.६६ कोटिरूप्यकाणां अनुमानितव्ययस्य सामूहिककार्ययोजना निर्मिता। योजनाया: अन्तर्गतं शिमलामण्डलस्य २० प्रतिशतं असुरक्षितलिङ्कमार्गजालस्य विकास: सुनिश्चितः भविष्यति। लोकनिर्माणविभागः अन्ये च सम्बद्धविभागाः अस्य उपक्रमस्य प्रभावीरूपेण कार्यान्वयनार्थं सहकार्यं करिष्यन्ति।
मार्गसुरक्षाजागरूकतायै राज्यस्य सप्तजिलेषु गुडसमरीटन- कानूनजागरूकताकार्यक्रमः सफलतया चालितः। अस्मिन् कार्यक्रमे ३०० तः अधिकाः पुलिस-गृहरक्षक-कर्मचारिणः मूलभूत- जीवनरक्षणप्रविधिषु प्रशिक्षिताः सन्ति। तदतिरिक्तं २०० तः अधिकाः पुलिस-अधिकारिणः यातायात- सुरक्षाप्रवर्तनस्य, मार्गदुर्घटना- अनुसन्धानप्रविधिषु च प्रशिक्षणं प्राप्तवन्तः सन्ति। प्रथमवारं हिमाचलप्रदेशे प्रायः ७५०० किलोमीटरदीर्घमार्गेषु अन्ताराष्ट्रीय- मार्गमूल्यांकन- कार्यक्रमसर्वेक्षणं कृतम्। अस्य सर्वेक्षणस्य आधारेण सुरक्षामानकानुसारं मार्गाणां मूल्याङ्कनं कृतम्। ३२०० कोटिरूप्यकाणां अनुमानितनिवेशेन १० वर्षीयः सुरक्षितमार्गनिवेशयोजना निर्मिता अस्ति, यस्मिन् लोकनिर्माणपरिवहनविभागः अन्ये च सम्बद्धाः संस्था: सम्मिलिताः भविष्यन्ति।
राज्यसर्वकारस्य नवीनपरिकल्पनानां सकारात्मकपरिणामाः बहिः आगच्छन्ति। फलतः विगतवर्षद्वये मार्गदुर्घटनानां घातानां च संख्यायां न्यूनता अभवत्। हिमाचलप्रदेशे मार्गदुर्घटनासु ६.४८ प्रतिशतं न्यूनता अभवत् २०२३ तमे वर्षे २२५३ दुर्घटनानाम् अभिलेखः अभवत् यदा तु २०२४ तमे वर्षे २१०७ मार्गदुर्घटनानां अभिलेखः अभवत्। राज्ये मार्गदुर्घटनानां कारणेन मृत्योः दरः अपि न्यूनीकृत:। २०२३ तमे वर्षे ८९२ मृत्योः अभिलेखः अभवत्, २०२४ तमे वर्षे ८०६ मृत्योः अभिलेखः अभवत्। राज्यसर्वकारेण मार्गसुरक्षायाः प्राथमिकता दत्ता, अनेके परिष्कारात्मका: उपायाः च कार्यान्विताः येषां सकारात्मकं परिणामं प्राप्तम्।