कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य अमर गान्ताइतः अखिलभारतीयरूपकमहोत्सवस्य “सर्वोत्तम अभिनेता” पुरस्कारं प्राप्तवान्
वार्ताहर: – जगदीश डाभी
दिनांकः११-०२-२५ तः १४-०२-२५ पर्यन्तं केन्द्रीयसंस्कृतविश्वविद्यालयेनायोजिते तृतीयअखिलभारतीयरूपकमहोत्सवे पश्चिमवंगस्थपूर्वमेदिनीपुरान्तर्गतस्य कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य छात्रः अमरगान्ताइतः सर्वोत्तमनट इति पुरस्कारं लब्धवान्। प्रतिवर्षमायोज्यमाणः रूपकमहोत्सव ऐषमः केन्द्रीयसंस्कृतविश्वविद्यालयभोपालपरिसरे भोपालनगरे अभवत्। ध्यातव्यं यत् भारतवर्षस्य सर्वेषु संस्कृतविश्वविद्यालयेषु महाविद्यालयेषु च वलयस्तरे आदौ संस्कृतनाटकस्पर्धा विगतदिनेषु अभूत्। तत्र चितानि रूपकाणि एव अखिलभारतीयरूपकमहोत्सवे प्रायशः प्रदर्शितानि। कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयः पूर्ववलये पुरीनगरे केन्द्रीयसंस्कृतविश्वविद्यालये श्रीसदाशिवपरिसरे आयोजिते रूपकमहोत्सवे आश्चर्यकरमेव इति सामाजिकं नाटकं प्रदर्श्य द्वितीयपुरस्कारं प्राप्तवान् आसीत्।ततः तदेव नाटकं भोपालनगरे प्रदर्शितम्। तत्रैव प्रदर्शितेषु १५ संस्कृतनाटकेषु कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य छात्रः सर्वोत्तमनटः इति पुरस्कारं प्राप्तवान्।अस्मिन्नवसरे महाविद्यालयस्य प्राचार्यसमेताः समेऽपि अध्यापकाः कर्मचारिणश्च हर्षोल्लाससमन्विताः सन्तः छात्रस्य अमरस्य कृते तथा नाटकस्य सर्वेभ्यः सदस्येभ्यः सम्माननं शुभाशीर्वादं च प्रकटयन्ति।