जेपीनड्डा इत्यनेन सह मिलितवान् जयरामठाकुर:, हिमाचलस्य विकासस्य चर्चां कृतवान्
हिमसंस्कृतवार्ता: – नवदेहली। भारतीयजनतापक्षस्य वरिष्ठनेता तथा हिमाचलविधानसभायां विपक्षनेता जयरामठाकुरः शुक्रवासरे दलस्य राष्ट्रियाध्यक्षं, केन्द्रीयस्वास्थ्यरसायन-उर्वरकमन्त्रिणं जगतप्रकाशनड्डावर्यं च मिलितवान्।
जयरामठाकुरः सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र उक्तवान् यत् अद्य नवीदिल्लीनगरे भाजपादलस्य राष्ट्रीयाध्यक्षेण केन्द्रीयस्वास्थ्यरसायनउर्वरकमन्त्रिणा जगतप्रकाशनड्डावर्येण साकं च शिष्टाचारं कृत्वा नवीदिल्लीविधानसभानिर्वाचने दलस्य विशालविजयाय अभिनन्दनं कृतवान्। अस्मिन् कालखण्डे हिमाचलस्य विकाससम्बद्धाः विविधाः विषयाः श्री नड्डवर्येण सह चर्चा कृता ।