HP Students Exposure Visit : हिमाचलप्रदेशात् मेधावीछात्राणां दलं कम्बोडियादेशं प्राप्य विश्वस्य बृहत्तमं हिन्दुमन्दिरं दृष्टवान्
हिमसंस्कृतवार्ता: – शिमला।
शिक्षामन्त्रिण: रोहितठाकुरस्य नेतृत्वे शैक्षिकभ्रमणार्थं विदेशं गतानां ५० मेधावीनां छात्राणां दलं मंगलवासरे कम्बोडियादेशस्य विश्वप्रसिद्धस्य अङ्कोरवाट् मन्दिरस्य दर्शनं कृतवान्। अस्मिन् काले छात्राः अस्य भव्यमन्दिरस्य इतिहासस्य, संस्कृते:, वास्तुकलापक्षस्य च विषये सूचनां प्राप्तवन्तः । शिक्षामन्त्रिणा सह पूर्व सीपीएस आशीष बुटेल:, समग्रशिक्षानिदेशक: राजेश: शर्मा, उच्चतरशिक्षानिदेशक: डॉ. अमरजीत: शर्मा, प्रारम्भाकशिक्षा निदेशक: आशीष: कोहली इत्यादयः अधिकारिणः अपि अस्मिन् भ्रमणे समाविष्टाः सन्ति।
अङ्गकोरवाट: कम्बोडियादेशस्य अङ्गकोर-प्रदेशे स्थितम् अस्ति । अयं विश्वस्य बृहत्तमं धार्मिकसङ्कुलम् अस्ति, यस्य विस्तारः १६२.६ हेक्टेयर् (४०२ एकड़) अस्ति । छात्राः अस्य ऐतिहासिकधरोहरस्य विस्तृतपरिसरं गत्वा मन्दिरस्य जटिलानि उत्कीर्णनानि, विशालस्तम्भाः, ऐतिहासिकमहत्त्वं च विस्तरेण ज्ञातवन्तः।
छात्राणां कृते एकः अद्वितीयः शिक्षणस्य अवसरः
शिक्षामन्त्री रोहितठाकुरः अवदत् यत् एषः केवलं छात्राणां कृते भ्रमणं न अपितु शिक्षणस्य अद्वितीयः अवसरः अस्ति। कक्षायाः बहिः गत्वा विश्वस्य महान् धरोहरस्य निकटतया अवलोकनं अवगमनं च तेषां वैश्विकदृष्टिकोणस्य विकासं करिष्यति। ते स्वसंस्कृतेः अन्यसभ्यतानां च सम्बन्धं अधिकतया अवगन्तुं शक्नुवन्ति।
छात्राः सिङ्गापुरस्य विज्ञानस्य नवीनतायाः च विषये अपि ज्ञास्यन्ति
कम्बोडियादेशस्य अनन्तरं शैक्षणिकप्रतिनिधिमण्डलं सिङ्गापुरं प्रति प्रस्थास्यति, यत्र ते आधुनिकविज्ञानेन, प्रौद्योगिकीनवीनीकरणेन, सांस्कृतिकधरोहरेण च परिचिताः भविष्यन्ति। तत्र विज्ञानस्य, प्रौद्योगिकीप्रगतेः च विषये सूचनां प्राप्तुं दलं सिङ्गापुरविज्ञानकेन्द्रं, ओम्नीरङ्गमञ्चं च गमिष्यति। छात्राः डिजिटल-प्रौद्योगिक्याः विषये, मनोरञ्जन-उद्योगे विज्ञानस्य प्रभावस्य विषये च ज्ञातुं यूनिवर्सल-स्टूडियो, टाइम कैप्सूल, सिङ्गापुर-फ्लायर इत्यादीनां भ्रमणं करिष्यन्ति।