CM Sukhu in MP : मध्यप्रदेशस्य महूस्थाने भाजपाया: उपरि मुख्यमंत्रिण: वाक्प्रहार:
काङ्ग्रेसनेतृभिः दासतायाः श्रृङ्खलाः भग्नाः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
मध्यप्रदेशस्य महूस्थाने संविधानस्य उद्धाराय आयोजितायां काङ्ग्रेससभायां सोमवासरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भागं गृहीतवान्। जयभीम:, जयबापू, जय संविधानम् शीर्षकान्वितां सभाम् सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् काङ्ग्रेसनेतृभिः दासतायाः श्रृङ्खलाः भङ्गयित्वा संविधानस्य निर्माणं कृत्वा लोकतन्त्रस्य सुदृढं आधारं स्थापितम्। बाबासाहेबस्य अम्बेडकरस्य संविधानेन प्रत्येकं भारतीयस्य समानाधिकारस्य सम्मानस्य च कवचः दत्तः ।
अखिलभारतीयराष्ट्रीयकाङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखड़गे, विपक्षनेता राहुलगान्धी, अनेके वरिष्ठनेतारः चेत्येतेषाम् सभायां उपस्थितौ मुख्यमन्त्री उक्तवान् यत् अद्य संविधानं संकटग्रस्तं वर्तते, निर्वाचन-आयोगसदृशाः संवैधानिकसंस्थाः दुर्बलाः भवन्ति। एतादृशे समये राहुलगान्धी संविधानस्य सत्यरक्षकः सेनापतिः च इति रूपेण उद्भूतः अस्ति । भारतजोडोयात्रायाः माध्यमेन देशस्य एकतायाः, अखण्डतायाः, भ्रातृत्वस्य च सन्देशं दातुं सः सहस्राणि किलोमीटर्-पर्यन्तं पादचारेण गतः । राज्यकाङ्ग्रेस अध्यक्षा प्रतिभासिंहः अपि सभां सम्बोधितवती। केन्द्रीयगृहमन्त्री अमितशाहेन बाबासाहेबस्य डॉ भीमराव-अम्बेडकरस्य विरुद्धं प्रदत्तस्य वक्तव्यस्य विरोधे काङ्ग्रेसदलं अखिले देशे संविधानं रक्षय इति यात्रा करोति।