Gudiya Rape And Murder Case : गुडियायाः माता नूतनजागृत्यर्थं याचनां कृतवती, अस्य प्रकरणस्य उच्चन्यायालये शीघ्रमेव भविष्यति श्रवणम्
हिमसंस्कृतवार्ता: – शिमला।
गुडियायाः मातुः पक्षतः हिमाचलप्रदेशस्य उच्चन्यायालये अस्य प्रकरणस्य पुनः अन्वेषणार्थं याचना कृता अस्ति। अस्य कृते न्यायालये आवेदनपत्रं प्रवेशितम् अस्ति, यस्मिन् शीघ्रमेव प्रकरणस्य श्रवणार्थं अनुरोधः कृतः अस्ति ।
गुडियायाः मातुः पक्षतः हिमाचलप्रदेश उच्चन्यायालये मार्च २०२२ तमे वर्षे याचिका प्रवेशिता, या न्यायालयेन स्वीकृता । अस्यां याचिकायां अन्वेषणसंस्थानां विषये प्रश्नाः उत्थापिताः सन्ति, सम्पूर्णस्य विषयस्य पुनः अन्वेषणं कर्तुं अनुरोधः अपि कृतः अस्ति।
आरोपाः कृताः यत् एतस्य घटनायाः एकसप्ताहस्य अनन्तरं एसआइटी-सङ्घटनस्य निर्माणं जातम्, ततः १०-१५ दिवसेभ्यः अनन्तरं सीबीआइ-संस्थायाः अन्वेषणार्थं प्रतिरूपाणि संगृहीतानि । तावत्पर्यन्तं पीडितस्य शरीरमपि दग्धम् आसीत् । पश्चात् कोटखाई-पुलिस-स्थानकम् अपि दग्धम्, यस्मिन् गुडिया-बलात्कार-हत्या-प्रकरणेन सह सम्बद्धाः सर्वे अभिलेखाः स्थापिताः आसन् । उच्चन्यायालये याचिकाकर्ता द्वारा प्रवेशिता याचिका अवकाशदिनानां समाप्तेः अनन्तरं तत्क्षणमेव श्रवणं भविष्यति।
*समग्रं प्रकरणं किम् ?*
उल्लेखनीयं यत्, २०१७ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के शिमला-मण्डलस्य कोटखाई-क्षेत्रात् लुप्ताया: १६ वर्षीयायाः बालिका-छात्रायाः शवः कोटखाई-नगरस्य तान्दी-वने निर्वस्त्रं प्राप्तम्। प्रकरणस्य अन्वेषणार्थं तत्कालीनस्य शिमला-आईजी जैदी इत्यस्य अध्यक्षतायां विशेषान्वीक्षणदलस्य (एस.आइ.टी.) अभियुक्तेषु एकः नेपालीयुवकः सूरजः कोटखाईपुलिसस्थानके पुलिसनिग्रहे तालाबन्दीमध्ये मृतः। एषः मृत्युप्रकरणः अन्वेषणार्थं सीबीआइ-इत्यस्मै समर्पितः । सीबीआई-अनुसन्धानेन ज्ञातं यत् सूरजस्य मृत्युः पुलिस-यातनायाः कारणेन अभवत् । अस्य आधारेण सीबीआई इत्यनेन आईजी जैदी इत्यस्य अन्येषां च नवपुलिसपदाधिकारिणां कर्मचारिणां च विरुद्धं हत्यायाः धारा ३०२, प्रमाणानां नष्टीकरणस्य धारा २०१ इत्यादीनि अनेकाभि: गम्भीरधाराभिः अन्तर्गतं प्रकरणं पञ्जीकृतम् आसीत् २०१७ तमे वर्षे अयं प्रकरणः शिमलाजिल्लान्यायालयात् चण्डीगढ-सीबीआइ-न्यायालये स्थानान्तरितः । तदनन्तरं बहुवारं श्रवणम् अभवत् अधुना न्यायालयेन दण्डः घोषितः।